SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका द्वितीयं पर्व पुरुषचरिते ॥२६४॥ सर्गः अजितसगरयोचरितम्। तस्य चाऽतिबलो नाम, मनुः समुदपद्यत । आखण्डल इवाऽखण्डशासनोऽवनिशासनः ॥ १२८ ॥ वभूव तस्य तनयो, बलभद्रोऽभिधानतः । जगन्मद्रङ्करः स्थाम्ना, धाम्ना दीधितिमानिव ॥ १२९ ॥ बलवीर्यो महावीर्यः, शौर्य-धैर्यभृदग्रणीः । ग्रामणीनरनाथानामभवत् तस्य चाऽऽत्मजः ॥ १३०॥ शोभितः कीर्ति-वीर्याभ्यां, कीर्तिवीर्यश्च विश्रुतः । उदभूदङ्गभूस्तस्माद् , दीपो दीपादिवोज्वलः॥१३॥ दन्तिभिर्गन्धदन्तीव, वज्रदण्ड इवाऽऽयुधैः । परैरवार्यवीर्योऽभूजलवीर्यश्च तत्सुतः ॥ १३२ ॥ अखण्डदण्डशक्तिश्च, दण्डपाणिरिवाऽपरः । अभूदुद्दण्डदोर्दण्डो, दण्डवीर्यस्तदात्मजः॥१३३॥ अपाच्यभरतार्धस्य, शासितारो महौजसः । इन्द्रोपनीतभगवन्महामुकुटधारिणः॥ १३४॥ सुरा-ऽसुरैरप्यजय्यास्तेऽपि लोकोत्तरौजसः । सर्वेऽपि कालधर्मेण, कार्लधर्ममुपाययुः ॥१३५॥ युग्मम् ॥ ततः प्रभृति चाऽन्येऽपि, सङ्ख्यातीता महीभुजः । महाभुजा व्यपद्यन्त, कालो हि दुरतिक्रमः ॥१३६॥ सर्वङ्कपः पिशुनवत, सर्वभक्षी हुताशवत् । सर्वभेदी सलिलवत् , कृतान्तस्तदहो द्विज! ॥१३७॥ मदीयेऽपि गृहे कालान्नाऽवशिष्टोऽस्ति पूर्वजः । का वार्ताऽन्यगृहेष्वस्ति ?, तन्मङ्गलगृहं कुतः ? ॥१३८॥ स्वत्पुत्रश्चेन्नियेतैकस्तदेवमुचितं तव । सर्वसाधारण मृत्यो, किं नाम द्विज! शोचसि? ॥१३९॥ अर्भके स्थविरे वाऽथ, दरिद्रे चक्रवर्तिनि । समं वर्तत इत्येष, कृतान्तः समवर्त्य हो! ॥ १४०॥ संसारस्य स्वभावोऽयं, न स्थिरः कश्चिदत्र यत् । तरङ्गवत् तरङ्गिण्यां, शरदभ्रवदम्बरे ॥ १४१ ॥ किश्चाऽसौ मे पिता माता, भ्राता पुत्रः वसा स्नुषा । इत्यादिरपि सम्बन्धो, न भवे पारमार्थिकः॥१४२॥ । १ जगन्माङ्गल्यकारकः। २ सूर्य इव । ३ अलौकिकपराक्रमवन्तः । ४ मृयुम् । ५ नद्याम् । अपरिचितेन द्विजेन स्वपुत्रमरणमिषेण सगरस्य प्रतिबोधनम् ॥२६॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy