SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ विपन्नमपि मे पुत्रं, सा यथा कुलदेवता । प्रत्यानयति येनाऽस्मि, दुःखितः पुत्रमृत्युना ॥ ११५॥ भवस्वरूपं नृपतिर्जानन्नपि कृपावशात् । तदुःखदुःखितः किश्चिचिन्तयित्वैवमब्रवीत् ॥ ११६ ॥ एतस्यामवनौ तावद्, गृहेषु सकलेवपि । अस्माकं गृहमुत्कृष्ट, सुमेरुः पर्वतेष्विव ॥ ११७॥ आसीदस्मिन्नसामान्यस्त्रिजगन्मान्यशासनः । प्रथमस्तीर्थनाथानां, प्रथमः पृथिवीभुजाम् ॥ ११८॥ लक्षयोजनमुत्सेधे, दण्डीकृत्याऽमराचलम् । दोर्दण्डेन समुत्क्षिप्य, च्छत्रीकर्तुं क्षमः क्षमाम् ॥ ११९॥ चतुःपष्टीन्द्रमुकुटोत्तेजिताङ्गिनखावलिः । भगवानृषभस्वामी, विपन्नः सोऽपि कालतः ॥१२० ॥ . ॥ त्रिभिर्विशेषकम् ।। तस्य च प्रथमः सूनुः, प्रथमश्चक्रवर्तिनाम् । सुरा-ऽसुरैरपि सदा, शिरसोद्वाह्यशासनः ॥ १२१ ॥ भरतो नाम सौधर्मपुरुहूतासनार्धभाव । कालेन गच्छता सोऽपि, समाप्तिं प्रापदायुषः॥१२२॥ युग्मम् ॥ तस्य चाऽवरजो धुर्यो, वर्यदोर्वीर्यशालिनाम् । अम्भोधीनामिवाऽम्भोधिः, स्वयम्भूरमणाभिधः ॥१२३॥ कण्डूयद्भिः सैरिभेभ-शरभाद्यैरकम्पितः । वज्रदण्ड इव न्यस्तो, वत्सरं प्रतिमाधरः ॥ १२४ ॥ महाबाहुर्बाहुबलि हुदन्तेयविक्रमः । नाऽधिकं किश्चिदप्यस्थात् , सम्पूर्णे पुरुषायुषे ॥ १२५ ॥ ॥त्रिभिर्विशेषकम् ॥ उग्रेण तेजसाऽऽदित्यो, नाम्नाऽऽदित्ययशा इति । समभूदोजसाऽनूनः, सूनुर्भरतचक्रिणः ॥ १२६ ॥ आदित्ययशसः सूनुरासीनाम्ना महायशाः। दिगन्तसङ्गीतयशाः, सर्वदोष्मच्छिरोमणिः॥ १२७॥ १ महिषगजाष्टापदप्रभृतिभिः। २ इन्द्रसमपराक्रमः । Jan Education For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy