SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Jain Education Int निर्वापयितुमुद्दामो, युगान्तज्वलनोऽपि वा । कल्पान्तोत्पातजातो वा, मन्दीकर्तुं समीरणः ॥ ५६ ॥ उत्तम्भनेनाऽद्रिरपि, समुत्तम्भयितुं पतन् । न तूपायशतेनाऽपि शक्यो मृत्युर्निषेधितुम् ॥ ५७ ॥ ते नः सम्पश्यमानानां, विपन्नाः स्वामिसूनवः । इत्येवं मास्म खिद्यध्वं धीरीभवत सम्प्रति ॥ ५८ ॥ युष्माकं स्वामिनमपि, मज्जन्तं शोकसागरे । हस्तेनेव धरिष्यामि, प्रबोधवचसाऽञ्जसा ॥ ५९ ॥ एवमाश्वास्य तान् सर्वान्, मृतं किञ्चित् पथि स्थितम् । विप्रः सोऽनाथमादाय, विनीतां नगरीं ययौ ॥६०॥ सगरस्य नरेन्द्रस्य, स गत्वा सदनाङ्गणे । ऊर्द्धाभूयोर्द्धदोर्दण्डः, पूच्चकारोच्चकैरिति ॥ ६१ ॥ चक्रवर्तिन् ! न्यायवर्तिन्नखण्ड भुजविक्रम ! । अत्याहितमब्रह्मण्य मत्रह्मण्य महो ! इदम् ॥ ६२ ॥ स्वर्गे पुरन्दरेणेव, क्षेत्रे भरतनामनि । यत् त्वया रक्षितेऽप्यस्मिन् मुषितो मुषितोऽस्म्यहम् ॥ ६३ ॥ शब्दमश्रुतपूर्वं तं श्रुत्वा सगरचक्रयपि । सङ्क्रान्ततद्दुःख इव, जगाद द्वारपालकम् ॥ ६४ ॥ केनैष मुषितः ? कोऽयं ?, कुतो वाऽयं समागतः । सर्वं विज्ञायतामेतत्, स्वयं वाऽत्र प्रवेश्यताम् ॥ ६५ ॥ द्वारपालोऽथ पप्रच्छ विप्रं क्षिप्रमुपेत्य तम् । अनाकर्णितकं कुर्वन्, पूच्चकार तथैव सः ॥ ६६ ॥ व्याजहार प्रतीहारः, पुनरेवमहो द्विज ! । किं दुःखबधिरोऽसि त्वं ?, निसर्गवधिरोऽसि वा १ ॥ ६७ ॥ अजितखामिनो भ्राता, स्वयमेप महीपतिः । दीना नाथपरित्राता, शरणं शरणार्थिनाम् ॥ ६८ ॥ सादरः सोदरमिव, त्वां पृच्छति विराविंणम् । मुषितः केन ? कश्चाऽसि ?, कुतस्त्योऽसीति शंस नः ॥ ६९ ॥ यदि वा स्वयमागत्य, स्वकीयं दुःखकारणम् । वैद्यायेव रुगुत्थानं, निवेदय महीभुजे ॥ ७० ॥ १ जीवितापहार्यनर्थसम्पातः । २ पूत्कारिणम् । ३ रोगोत्पत्तिम् । For Private & Personal Use Only wwwww.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy