SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ त्रिपष्टि - शलाका पुरुषचरिते ॥२६१॥ Jain Education Int भक्ता बहुज्ञा दोष्मन्तो, दृष्टसाराः पुराऽपि च । इत्यादिष्टा वयं राज्ञा, सत्कृत्य तनयैः सह ॥ ४१ ॥ विना कुमारानभ्येत्य, स्वामिनोऽग्रे वयं कथम् । वदनं धारयिष्यामो नासिकारहिता इव ? ॥ ४२ ॥ कथं वा कथयिष्यामः, पुत्रवृत्तान्तमीदृशम् । अकाण्डाशनिसम्पातसदृशं वसुधापतेः १ ॥ ४३ ॥ अतः परमहो ! तत्राऽस्माकं गन्तुं न युज्यते । युज्यते किन्तु मरणं, शरणं सर्वदुःखिनाम् ॥ ४४ ॥ सम्भावनायाः प्रभुणा, कृताया भ्रंशभाजिनः । पुंसोऽशरीरिकस्येव, जीवितव्येन किं ननु ? ।। ४५ ।। किञ्च पुत्रक्षयं श्रुत्वा दुःश्रवं चक्रवर्त्यपि । चेद् विपद्येत तदपि, मृत्युरग्रेसरो हि नः ॥ ४६ ॥ मन्त्रयित्वेति ते सर्वे, मरणे कृतनिश्चयाः । यावत् तस्थुस्तावदागादेकः काषायभृद्विजः ॥ ४७ ॥ ब्राह्मणग्रामणीः सोऽथ, प्रोत्क्षिप्तकरपङ्कजः । जीवयंस्तानुवाचैवं, गिरा जीवातुकल्पया ॥ ४८ ॥ भोः कृत्यमूढाः ! किं यूयमेवं स्थास्वस्थचेतसः ? । उपर्यापतिते व्याधे, पतित्वा शशका इव ॥ ४९ ॥ यदि पष्टिसहस्रा वः, स्वामिपुत्रा विपेदिरे । युगपद् युग्मिवत् तत्र, विषादेन कृतं ननु ॥ ५० ॥ सहजाता अपि क्वाऽपि, विपद्यन्ते पृथक् पृथक् । पृथग्जाता अपि क्वाऽपि, विपद्यन्ते सहैव हि ॥ ५१ ॥ वहवोऽपि विपद्यन्ते, विपद्यन्तेऽल्पका अपि । सर्वेषामपि जीवानां, यन्मृत्युः पारिपार्श्विकः ॥ ५२ ॥ न हि केनापि कस्यापि मृत्युः शक्यो निषेधितुम् । अपि यत्त्रशतं कृत्वा, स्वभाव इव देहिनाम् ॥ ५३ ॥ निषेधितुं शक्यते चेत्, से निषिद्धः कथं न हि । वज्रभृचक्रवर्त्त्याद्यैः, स्वस्य वा स्वजनस्य वा ? ॥ ५४ ॥ मुष्टिना शक्यते धर्तुमपि वज्रं पतद् दिवः । सेतुनाऽवस्खलयितुमप्युद्धान्तः पयोनिधिः ।। ५५ ।। १ सञ्जीवनौषधतुल्यया । २ मृत्युः । ३ रोद्धुम् । For Private & Personal Use Only द्वितीयं पर्व षष्ठः सर्गः अजितसगरयो - चरितम् । मुमृर्पूणां सगरपुत्रान्त:पुरीप्रभृतीनां अपरिचितेन द्विजेन संस्थापनम् ॥२६१॥ www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy