SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ SCENESCEREMEDIES युष्मान् नष्टान् विनष्टान् वा, हित्वा गतवतां मुखम् । कथं द्रक्ष्यति नः खामी, ऋषिहत्याकृतामिव ? ॥२७॥ युष्मान् विना गतान् नोऽद्य, लोकोऽप्युपहसिष्यति । हृदय ! स्फुट रे! सद्यः, पयःसिक्तामकुम्भवत्॥२८॥ तिष्ठ तिष्ठाहिखेट! त्वं, छलेन श्वेव नः पतीन् । व्यग्रानष्टापदत्राणे, दग्ध्वाध्यासीः क्व रेऽधुना ॥२९॥ खगः खड्गो धन्व धन्व, शक्तिः शक्तिर्गदा गदा । युद्धाय सजीभव रे :, कियन्नंष्ट्वा गमिष्यसि ? ॥३०॥ अमी तावदिह त्यक्त्वा, ययुनः स्वामिमूनवः । हहा! तत्र गतानद्य, त्यक्ष्यति वाम्यपि द्रुतम् ॥ ३१ ॥ अगतानपि नस्तत्र, जीवतोऽत्रैव तिष्ठतः । श्रुत्वा लजिष्यते स्वामी, यदि वा निग्रहीष्यति ॥ ३२ ॥ ___ एवं रुदित्वा विविधं, भूयः सम्भृय ते मिथः । सहजं धैर्यमालम्ब्य, मन्त्रयामासुरित्यथ ॥ ३३॥ पूर्वोदितविधानेभ्यः, परोक्तविधिवद् विधिः। सर्वेभ्यो बलवांस्तस्मान्न कोऽपि बलवत्तरः॥३४॥ तत्राऽशक्यप्रतीकारे, मुधा प्रतिचिकीर्षितम् । व्योम्नः प्रतिजिंघांसेव, जिघृक्षेव नभखतः॥३५॥ एभिः प्रलापैस्तदलं, हस्त्यश्वाद्यखिलं प्रभोः । इदानीमर्पयामः खं, वयं न्यासधरा इव ॥ ३६॥ उचितं रुचितं वापि, यत्किञ्चन ततः परम् । विदधातु तदस्मासु, स्वामी किं नो विचिन्तया ? ॥३७॥ ___ एवमालोच्य ते सर्वे, सर्वमन्तःपुरादिकम् । आदाय दीनवदनाः, प्रत्ययोध्यं प्रतस्थिरे ॥ ३८॥ मन्द मन्दमथोत्साहहीना म्लानाननेक्षणाः । अयोध्यासन्निधिभुवं, प्रापुः सुप्तोत्थिता इव ॥ ३९ ॥ विषण्णास्तत्र च स्थित्वा, नीता वध्यशिलामिव । उपविश्य महीपीठेऽन्योऽन्यमेवं बभाषिरे ॥४०॥ १ अस्मान् । २ अपक्वघटवत् । ३ पूर्वविधिभ्यः परो विधिर्बलवानिति व्याकरणशास्त्रे न्यायः । ४ दैवम् । ५ प्रतिहन्तुमिच्छा ।। ६ ग्रहीतुमिच्छा। ७ धनम् । सगरपुत्रान्त:पुरीप्रभृतीनामयोध्या प्रति प्रस्था नम् Jain Education Internet For Private & Personal use only |www.jainelibrary.org,
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy