SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। सगरपुत्रमरणे तत्सैन्यानां विलापः चक्रिसैन्येऽथ सैन्यानामाक्रन्द उदभून्महान् । महाजलाशय इव, रिक्तीभवति यादसाम् ॥१॥ केऽप्यावादितकिम्पाका, इव पीतविपा इव । सर्पदष्टा इवोन्मृगः, पेतुर्वसुमतीतले ॥२॥ केचिदास्फालयामासुः, स्वशिरो नालिकेरवत् । केचिदाजनिरे वक्षः, कृतागस्कमिवाऽसकृत् ।। ३ ॥ पादान् प्रसार्य केऽप्यस्थुः, कृत्यमूढाः पुरन्ध्रिवत् । भृगूण्यारुरुहुझम्पां, कपिवत् केपि दित्सवः ॥४॥ कूष्माण्डदारमुदराण्येके स्वानि दिदीर्पवः । चकृपुः क्षुरिका कोशाद्, यमजिह्वासहोदराम् ॥५॥ आत्मानं तरुशाखायामुद्धन्द्धमनसोऽपरे । बबन्धुरुत्तरीयाणि, लीलादोलां यथा पुरा ॥६॥ शिरसोऽत्रोटयन केऽपि, केशान क्षेत्रात कुशानिव । केऽप्यङ्गलग्नं नेपथ्यं, चिक्षिपुः स्वेदबिन्दुवत् ॥७॥ हस्तन्यस्तकपोलाः केऽप्यस्थुश्चिन्तापरायणाः । प्रदत्तोत्तम्भनस्तम्भजर्जराकारकुड्यवत् ॥ ८॥ असंवहन्तः केचिच्च, परिधानांशुकान्यपि । विशंस्थुलाङ्गं व्यलुठन्नुन्मत्ता इव भूतले ॥९॥ विलापोऽन्तःपुरस्त्रीणां, कुररीणामिवाऽम्बरे । हृदयाकम्पजनकः, पृथक् पृथगभूदिति ॥१०॥ प्राणेशान् गृह्णताऽस्माकं, प्राणानत्रैव मुञ्चता । किमर्धवैशंसमिदं, रे दैवाऽऽचरितं त्वया ? ॥११॥ प्रसीद विवरं देहि, स्फुटित्वा देवि काश्यपि! । अभ्रादपि पतितानां, शरणं धरणी खलु ॥ १२॥ | १ कृतापराधम् । २ छिन्नटङ्कानि अत्युच्चानि गिरिशिखराणि । ३ दातुमिच्छवः । ४ शिथिलाङ्गं यथा स्यात्तथा। * पुरे स्त्री सङ्घ २ सङ्घ ३ संता० ॥ ५ अर्धमरणम् । ६ हे पृथ्वि । सगरपुत्राणां मरणे तदन्त:पुरीणां परिदेवनम् त्रिपति Jain Education intuitell For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy