SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ दण्डदारणमार्गेण, चचालाऽथ सरिद्वरा । नीयते यत्र तत्राऽम्भो, गच्छत्यूजुपुमानिव ॥ १६३॥ उत्क्षिप्तशैलशिखरेवाऽभ्रंलिहमहोर्मिभिः । दृढास्फालिततूर्येव, तटास्फालननिखनैः ॥ १६४ ॥ द्विगुणं दण्डभेदं च, कुर्वाणा वाम्बुरंहसा । अष्टापदाद्रिपरिखां, गङ्गा प्राप समुद्रवत ॥ १६५॥ ॥युग्मम् ॥ योजनसहस्रदनी, पातालमिव भीषणाम् । सा प्रवृत्ता पूरयितुं, परिखां परितोपि ताम् ॥ १६६॥ अष्टापदाद्रिपरिखापूरणार्थमकृष्यत । जहुना यत् ततो गङ्गा, ततः प्रभृति जाह्नवी ॥ १६७॥ परिखां पूरयित्वा च, भूरिभिर्विवरैर्जलम् । धारायवैरिवाऽविक्षनागानां भवनेष्वथ ॥ १६८॥ पयोभिः पूर्यमाणेषु, बिलवत् फणिवेश्मसु । फूत्कुर्वन्तः प्रतिदिशं, फणिनस्त्रेसुराकुलाः॥१६९॥ सगरामजानां नागलोकस्य सङ्कोभ, दृष्ट्रा भूयोऽपि सोहिराद् । अकुप्यद् विकटाकार, आरास्पृष्ट इव द्विपः॥१७०॥ठा नागराजेन अवोचच्च सगरजाः, पितृवैभवदुर्मदाः। न सामयोग्यास्ते किन्तु, दण्डारे रासभा इव ॥ १७१॥ |भसीकरणम् एकोऽपराधो भवनभ्रंशरूपो व्यपात । मयाऽकारि न शिक्षा यत्, तैस्तन्मन्तूयितं पुनः॥ १७२॥ आरक्ष इव दस्यूनां, तेषां शिक्षा करोम्यहो ! । अहमित्युद्भटं जल्पन्ननल्पाटोपभीषणः ॥ १७३ ॥ अकाल इव कालाग्निरुद्धान्तो दीप्तिदारुणः। जगद् दग्धुमना वाधैरोवाग्निरिव निर्गतः॥ १७४॥ वज्रानल इवोज्वालः, स निर्गत्य रसातलात् । तत्राऽऽजगाम वेगेन, समं नागकुमारकैः ॥ १७५ ॥ ॥ त्रिभिर्विशेषकम् ॥ १ योजनसहरप्रमाणाम् । २ शस्त्रविशेषः। ३ अपराद्धम् । ४ बढवाग्निः । Jan Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy