________________
त्रिषष्टि
शलाकापुरुषचरिते
द्वितीयं पर्व पश्चमः सर्गः अजितसगरयोश्चरितम् ।
॥२५८॥
SACARRORISSAGAR
अथोचे जहुना नागराजेदं युक्तमभ्यधाः । अमुना वेश्मभङ्गेनामदुपज्ञेन पीडितः॥१४८ ॥ वेश्मनां युष्मदीयानां, भङ्गोऽस्त्विति मनीषया । वसुन्धरा न खातेयमस्माभिर्दण्डपाणिभिः॥१४९॥ किन्त्वष्टापदतीर्थस्याऽमुष्य रक्षणहेतवे । परिखारूपतोऽस्माभिरियं खाता वसुन्धरा ॥ १५॥ अत्र ह्यसद्वंशकन्दश्चक्रे भरतचक्रभृत् । चैत्यं रत्नमयं रत्नप्रतिमाश्चार्हतां शुभाः॥१५१॥ भविष्यत्कालदोषेण, लोकेभ्यस्तदुपद्रवम् । शङ्कमानैः प्रयत्नोऽयमस्माभिर्विहितः खलु ॥ १५२॥ भङ्गो युष्मद्वेश्मनां तु, दूरत्वान्न हि शङ्कितः। दण्डशक्तिरमोघेयं, हन्त ! तत्राऽपराध्यति ॥ १५३ ॥ अविमृश्यविधायित्वेनार्हद्भक्त्या च यत् कृतम् । तत् सहस्वाऽतः परं तु, करिष्यामोन हीदृशम् ॥१५४॥ एवं जहुकुमारेणाऽनुनीतो नागराडपि । शशाम सामवागम्भः, कोपाग्नेः शमनं सताम् ॥ १५५॥ मा स कुटुं पुन!यमीदृगित्यभिधाय सः । नागलोकं ययौ नागराजः सिंहो गुहामिव ॥ १५६ ॥ नागराजे गते जहाजहे सोदरानिति । परिखा विहिता तावदष्टापदगिरेरियम् ॥ १५७॥ किन्तु पातालगम्भीराऽप्यम्भोरिक्ता न भात्यसौ । बुद्धिशून्या देहभाजो महत्यप्याकृतिर्यथा ॥ १५८॥ किञ्च सम्भाव्यतेऽमुष्या, रजोभिरपि पूरणम् । स्थलीभवन्त्येव गर्ता, अपि कालेन गच्छता ॥ १५९॥ पूरणीया ततोऽवश्यमियं नीरेण भूरिणा । उत्तरङ्गां विना गङ्गां, तच्च कर्तुं न पार्यते ॥१६०॥ साधु साध्विति सोदयाहतो जहुरग्रहीत् । अमोघं दण्डरत्नं तद्, यमदण्डमिवाऽपरम् ॥१६१॥ दण्डरत्नेन तेनाऽथ, गङ्गातटमदारयत् । जहुर्वजीव वज्रेण, महाशिखरिणस्तटीम् ॥ १६२॥
अस्मस्कृतेन । २ सामवाक्यमेव जलम् । ३ जलशून्या ।
सगरपुत्ररष्टापदगिरेः
परिखाविधानम्
॥२५८॥
Jain Education in
For Private & Personal use only
www.janelibrary.org.