SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ PROGR सगरपुत्रैरष्टापदे जिनार्चनम् AISUUSAS49 चारणश्रमणैस्तानि, बिम्बानि प्रत्यतिष्ठिपत् । बाहुबल्यादिवन्धूनां, स्तूपान् मूर्तीश्च सोऽकृत ॥ १०३ ॥ स्थितोत्र वृषभखामी, तीर्थकृच्चक्रि-केशवान् । प्रतिकेशव-रामांश्च, भाविनस्तमजिज्ञपत् ॥ १०४॥ सोपानभूतानि पदान्यष्टाऽमुं परितो व्यधात् । भरतो येन तेनाध्यमष्टापद उदीर्यते ॥१०५॥ असावस्मत्पूर्वजानामिति प्रादुर्भवन्मुदः। तं तेऽथाऽऽरुरुहुः शैलं, कुमाराः सपरिच्छदाः॥१०६॥ तत्र सिंहनिषद्यायां, चैत्ये प्रविविशुश्च ते । दूरादालोकमात्रेऽपि, नेमुश्चाऽऽदिजिनेश्वरम् ॥१०७॥ अजितस्वामिबिम्बं च, बिम्बान्यन्याहतामपि । तुल्यया श्रद्धया नेमुर्गर्भश्राद्धा हि ते खलु ॥१०८॥ अथ गन्धोदकैः शुद्धर्मत्राकृष्टैरिव क्षणात् । कुमाराः पयामासुबिम्बानि श्रीमदर्हताम् ॥ १०९॥ केऽप्यद्भिर्बिभराश्चक्रुः, कलसान् केचिदार्पयन् । केचिच्च लोठयामासुः, प्रतीषुः केपि रेचितान् ॥११॥ केपि स्नात्रविधि पेठुर्जगृहुः केऽपि चामरान् । सौवर्णधूपदहनान्युपाददत चाऽपरे ॥ १११॥ चिक्षिपु पदहनेष्वपरे धृपमुत्तमम् । केपि शङ्खादितूर्याणि, वादयामासुरुच्चकैः ॥११२॥ स्नानगन्धोदकैस्तैश्च, पतद्भिस्तत्र वेगतः। अष्टापदगिरिज॑ज्ञे, तदा द्विगुणनिर्झरः ॥ ११३ ॥ पक्षमलैः कोमलै रूक्षैर्देवदूष्योपमैः पटैः । तेऽमार्जन् रत्नबिम्बानि, तानि वैकटिका इव ॥ ११४ ॥ गोशीर्षचन्दनरसैश्चक्रुस्तेषां विलेपनम् । तेऽतिसैरन्ध्रयः स्वैरं, निर्भरं भक्तिशालिनः ॥ ११५ ॥ अर्चयामासुरर्चास्ता, विचित्रैः पुष्पदामभिः । रत्नालङ्करणैर्दिव्यैर्वखैरपि मनोहरैः ॥ ११६ ॥ पुरतः स्वामिबिम्बानामिन्दुरूपविडम्बिनः । अखण्डैस्तण्डुलः पट्टेष्वालिखंस्तेऽष्टमङ्गलीम् ॥११७॥ १जगृहुः। २ रिक्कान् । ३ मणिकारा इव । Jain Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy