SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीय पर्व पञ्चमः सर्गः ॥२५६॥ अजितसगरयोश्ररितम् । महासरोभिः पीयूषनिधानमिव नाकिनाम् । उपात्तनीलसंव्यानमिव सान्द्रार्द्रपादपैः ।। ८८॥ महापक्षधरमिव, पयोदैः पारिपार्श्विकैः । लम्बमानपताकाङ्कमिव निझरवारिभिः॥ ८९ ॥ विद्याधरविलासोको, वैताढ्यमिव नूतनम् । गायन्तमिव मुदितमयूरादिकलस्वनैः॥९॥ चैत्यं सशालभञ्जीकमिव खेचर्यधिष्ठितम् । किरीटमिव मेदिन्या, रत्नोपलविनिर्मितम् ॥ ९१॥ नन्दीश्वरद्वीपमिव, चैत्यवन्दनकाम्यया । अभीयमानं सततं, चारणश्रमणादिभिः ॥९२॥ - तं दृष्ट्वा नित्यपर्वाणं, पर्वतं स्फाटिकोपलम् । ते पप्रच्छुः स्वसचिवान् , सुबुद्धिप्रभृतीनिति ॥ ९३॥ वैमानिकानां स्वर्गस्थक्रीडाद्रिभ्य इवैककः । अवतीर्णो वसुमतीमयं को नाम पर्वतः ॥ ९४॥ केन चाऽभ्रंलिहमिह, विदधे चैत्यमद्भुतम् । इदं हिमवदद्रिस्थशाश्वतायतनोपमम् ? ॥९५ ॥ ___ अथ ते मत्रिणोऽप्यूचुः, पुराऽभूदृषभः प्रभुः । युष्मद्वंशस्याऽऽदिकरस्तीर्थस्याऽप्यत्र भारते ॥९६॥ तत्सूनुर्नवनवतेतूणामग्रजोऽभवत । भरतो नाम षट्खण्डभरतक्षेत्रशासिता ॥ ९७ ॥ क्रीडागिरिरयं तस्य, चक्रिणोऽष्टापदाभिधः । अनेकाश्चर्यसदनं, सुमेरुरिव वज्रिणः ॥ ९८॥ साधूनां दशसाहरुया, सहेह च महीधरे । भगवानृषभस्वामी, जगाम पदमव्ययम् ॥ ९९॥ ऋषभखामिनिर्वाणानन्तरं भरतेश्वरः। चैत्यं सिंहनिषद्याख्यं, चक्रे रत्नोपलैरिह ॥१०॥ ऋषभखामिनो बिम्बमहतां भाविनामपि । स त्रयोविंशते रत्नग्रावभिर्दोषवर्जितैः ॥१०१॥ स्वस्वप्रमाणसंस्थानवर्णलाञ्छनभाञ्जि तु । बिम्बानि भक्त्या परया, व्यधत्तेह यथाविधि ॥१०२॥ युग्मम् ॥ १ उत्तरीयवस्वम्। २ अभिगम्यमानम् । ३ नित्योत्सवम् । सगरपुत्रैः अष्टापदगिरेदर्शनम् ॥२५६॥ Jan Education For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy