________________
HOLOGROCHOWARUOSASSAGE*
कृतस्नानाः कृतप्रायश्चित्त-कौतुकमङ्गलाः । चक्रिणः सर्वसैन्येन, ते कुमाराः प्रतस्थिरे ॥७३॥ स्त्रीरत्नवर्ज रत्नानि, सर्वाण्यपि महीपतिः। प्रजिघाय सुतैः सार्धमात्मैव हि सुतत्वभाक् ॥ ७४॥ केचिद् गजवरारूढा, दिक्पालाकारधारिणः । अश्वानधिष्ठिताः केचिदतिरेवन्तमूर्तयः ॥ ७५॥ अध्यासीना रथान् केचिदादित्याद्या इव ग्रहाः । किरीटधारिणः सर्वेऽप्यधीशा धुसदामिव ॥ ७६ ॥ वक्षःस्थललुलद्धाराः, ससरित्का इवाऽद्रयः । देवता इव भूप्राप्ता, विविधायुधपाणयः ।। ७७॥ छत्रलाञ्छितमूर्धानो, दुमाङ्का व्यन्तरा इव । आत्मरक्षैः परिवृता, वेलाधारैरिवाऽब्धयः॥ ७८॥ अविहस्तोदस्तहस्तैः, स्तूयमानाच मागधैः । वसुन्धरां दारयन्तस्तुरङ्गमखुरैः खरैः ॥ ७९ ॥ तूर्यप्रणादैर्बधिरीकुर्वाणाः सर्वतो दिशः । अन्धीकुर्वन्त उत्क्षिप्तै रजोभिश्च भूरिभिः ॥ ८॥ उद्यानेषु विचित्रेषूद्यानानामिव देवताः । गिरिप्रस्थेषु च गिरिकुमारा इव हारिणः ।। ८१॥ सरित्पुत्रा इव सरित्पुलिनेषु च चारुषु। स्वच्छन्दं रममाणास्ते, बभ्रमुर्भरतावनौ ॥८२॥ अष्टभिः कुलकम् ।। ग्रामा-ऽऽकर-पुर-द्रोणमुख-खेटादिषु व्यधुः। जिनाचा विचरन्तस्ते, माला विद्याधरा इव ॥ ८३॥ भुञ्जाना बहुधा भोगान् , ददाना बहुधा धनम् । सुहृजनान् प्रीणयन्तो, विनिघ्नन्तोऽसुहृजनान् ।। ८४ ॥ दर्शयन्तः पथि चलल्लक्षपातनकौशलम् । भृशमन्यापतच्छस्त्रग्रहणस्य च नैपुणम् ॥ ८५॥ शस्त्राशस्त्रिकथाश्चित्रास्तास्ता नर्मकथा अपि । यानाधिरूढैः कुर्वाणाः, सवयोभिः समं नृपः॥८६॥ अप्यालोकनमात्रेण, क्षुत्तृषाहरणौषधम् । तेऽन्यदाऽष्टापदं प्रापुरास्पदं पुण्यसम्पदाम् ॥ ८७॥ प्राहिणोत् । २ सूर्यपुत्राधिकरूपाः । ३ अव्याकुलोद्धकरैः । ४ कठोरैः । ५ मनोहराः । ६ शत्रून् । ७ हास्यकथाः ।
Jain Education
a
l
For Private & Personal Lise Only
www.jainelibrary.org