SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि, ४४ Jain Education i प्रविशन् हरिदासेन, चौरोऽसाविति शङ्कया । निहतः खड्गघातेन, विमर्शः क्वाऽल्पमेधसाम् १ ॥ १४ ॥ स्वस्य व्यापादकं ज्ञात्वा, तदानीमपि भावनः । तत्कालकलितद्वेषः, कालधर्ममुपाययैौ ॥ १५ ॥ स ज्ञात्वा पितरं पश्चात् पश्चात्तापकदर्शितः । चकार प्रेतकार्याणि, सशैल्यस्तेन कर्मणा ॥ १६ ॥ विपेदे हरिदासोऽपि, गते काले कियत्यपि । दुःखदान् द्वावपि ततो भ्रमतुः कतिचिद् भवान् ॥१७॥ किञ्चिच्च सुकृतं कृत्वा, जीवोऽभूद् भावनस्य तु । पूर्णमेघो हरिदासजीवस्त्वासीत् सुलोचनः ॥१८॥ इति प्राग्जन्मसंसिद्धं, पूर्णमेघ-सुनेत्रयोः । वैरं प्राणान्तिकं राजन्नैहिकं त्वानुषङ्गिकम् ॥ १९ ॥ 1 भूयोऽपि सगरोऽपृच्छत्, तत्सून्वोरनयोर्मिथः । को वैरहेतुः ? स्नेहश्व, सहस्राक्षे कुतो मम १ ॥ २० ॥ स्वाम्यूचे दानशीलस्त्वं, परिवाद् रम्भकाभिधः । प्राग्भवेऽभूस्तवाऽभूतां, शिष्यौ शश्यावली त्विमौ ॥ अभूच्चाऽतिविनीतत्वादावलिस्तेऽतिवल्लभः । गोधेनुमेकामक्रीणादन्यदा द्रविणेन सः ॥ २२ ॥ भेदं गोस्वामिनः कृत्वा, कठोरहृदयः शशी । अन्तराले पतित्वैव तां क्रीणाति स्म धेनुकाम् || २३ || केशाकेशि मुष्टामुष्टि, दण्डादण्डि तयोस्ततः । युद्धं प्रववृते घोरं, शशिना चाssवलिर्हतः ॥ २४ ॥ शशी चिरं भवं भ्रान्त्वा, जज्ञेऽसौ मेघवाहनः । आवलिस्तु सहस्राक्षस्तदिदं वैरकारणम् ॥ २५ ॥ भ्रान्त्वा दानप्रभावेण, रम्भकोऽपि गतीः शुभाः । चत्र्यभूस्त्वं सहस्राक्षे, स्नेहः प्राग्जन्मभू ते ॥२६॥ अथ रक्षः पतिर्भीमो, निषण्णस्तत्र पर्षदि । उत्थायाऽऽलिङ्ग्य रभसान्मेघवाहनमब्रवीत् ॥ २७ ॥ पुष्करद्वीप भरतक्षेत्रे वैताढ्यपर्वते । प्राग्भवे काञ्चनपुरे, विद्युद्दंष्ट्रो नृपोऽभवम् ॥ २८ ॥ १ विचारः । २ दुःखसहितः । For Private & Personal Use Only मेघवाहनसहस्राक्षयोः पूर्वभवः www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy