SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ पश्चमः सर्गः। त्रिषष्टिशलाका पुरुषचरिते द्वितीयं पर्व पञ्चमः सर्ग: अजितसगरयोश्चरितम्। ॥२५३॥ अथ साकेतनगरोद्यानेऽजितजिनेश्वरः । भगवान् समवासापति, सेव्यमानः सुरा-ऽसुरैः॥१॥ वासवादिषु देवेषु, सगरादिषु राजसु । आसीनेषु यथास्थानं, विदधे देशनां विभुः ॥२॥ तदा च वैताठ्यगिरी, पूर्णमेघं सहस्रदृक् । स्मरन् पितृवधं क्रुद्धोऽवधीत् ताक्ष्ये इवोरगम् ॥३॥ पूर्णमेघात्मजस्तस्मान्नष्टोऽथ घनवाहनः। तत्राऽऽजगाम समवसरणे शरणेच्छया ॥४॥ स त्रिः प्रदक्षिणीकृत्य, भगवन्तं प्रणम्य च । उपपादमुपाविक्षदुपवृक्षमिवाऽध्वगः ॥५॥ समाकृष्याऽपि पातालाद्, भ्रंशयित्वा दिवोऽपि तम् । बलीयसो वा शरणात् , कृष्ट्वा हन्मीति विब्रुवन् ॥६॥ तस्याऽनुपदमेवाऽथ, सहस्राक्ष उदायुधः। आगात् समवसरणेऽपश्यच्च घनवाहनम् ॥७॥ प्रशान्तकोपस्त्यक्तास्त्रः, प्रभावात् परमेशितुः । नत्वा प्रदक्षिणापूर्व, यथास्थानमुपाविशत् ॥ ८॥ सगरश्चक्रभृदथ, पप्रच्छ परमेश्वरम् । किं वैरकारणं खामिन् !, पूर्णमेघ-सुनेत्रयोः॥९॥ आचख्यौ भगवानेवमादित्याभे पुरे पुरा । अभवद् भावनो नाम, द्रव्यकोटीश्वरो वणिक् ॥१०॥ वसूनोहरिदासस्य, सोऽर्पयित्वाऽखिलं धनम् । देशान्तरं वणिज्याय, जगाम श्रेष्ठिभावनः॥११॥ विदेशे द्वादशाब्दानि, स्थित्वोपायं महद् धनम् । आययौ भावनश्रेष्ठी, तस्थौ च नगराद् बहिः॥१२॥ तत्र मुक्त्वा परीवारमेकाक्यपि हि भावनः । निश्याययौ निजे समन्युत्कण्ठा हि बलीयसी ॥१३॥ १ वृक्षसमीपम् । पूर्णमेघसुलोचनयोः पूर्वभवसम्बन्धः ॥२५३॥ Jain Education Internal For Private & Personal use only hiawww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy