SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सेनापतिगृहपतिः, पुरोधा वर्धकिस्तथा । अपरे बहवः श्रेष्ठि-सार्थवाहादयोऽपि हि ॥ ३५९ ॥ स्नानपीठं तदारुह्याऽपाच्यसोपानवर्त्मना । निषेदुः खस्वस्थानेषु, ज्योतीषीव नभस्तले ॥३६०॥ युग्मम् ॥ तसिन् शुभे दिने वारे, नक्षत्रे करणेऽपि च । योगे चन्द्रे च लग्ने च, सर्वग्रहबलान्विते ॥ ३६१॥ अभिषेकं महीभर्तुश्चक्रुर्देवादयः क्रमात् । सौवर्णं राजतै रानैः, कलशैः कमलाननैः ॥ ३६२ ॥ युग्मम् ॥ वाससा देवदृष्येण, राज्ञोऽङ्गं ममृजुश्च ते । हस्तेन मृदुना सौधभित्ति चित्रकरा इव ॥ ३६३ ॥ दर्दर-मलयभवैरथ गन्धैः सुगन्धिभिः । राज्ञोऽङ्गं छुरयामासुर्योत्स्नयेव नभस्तलम् ॥ ३६४ ॥ दिव्यं च सुमनोदामोद्दामगन्धर्द्धिबन्धुरम् । स्वानुरागमिव दृढं, बबन्धुर्मूर्ध्नि भूपतेः ॥ ३६५ ॥ वासांसि देवदृष्याणि, रत्नालङ्करणानि च । ततस्तदुपनीतानि, पर्यधाद् वसुधाधवः ॥ ३६६ ॥ ततश्चक्रधरस्तत्र, मेघध्वनितधीरया । गिरा वनगराध्यक्ष, समादिक्षदिति खयम् ॥ ३६७॥ अदण्ड-शुल्कामभटप्रवेशामकरामिमाम् । महोत्सवां कुरु पुरी, यावद् द्वादशवत्सरीम् ॥ ३६८ ॥ इत्याज्ञां नगराध्यक्षो, हस्त्यारूढेनिजैनरैः । पुर्यामाघोषयामास, सद्यो डिण्डिमिकैरिव ॥ ३६९ ॥ इत्थं चक्रिपदाभिषेकपिशुनः पट्खण्डपृथ्वीपतेस्तस्य स्वर्नगरीविलासविभवस्तेयव्रतायां पुरि । प्रत्यर्ल्ड प्रतिमन्दिरं प्रतिपथं चाऽऽनन्दमुन्मुद्रयन्नुच्चैदश वत्सराणि समभृत् तस्यां महानुत्सवः॥३७॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि सगरदिग्जयचक्रवर्तित्वाभिषेकवर्णनो नाम चतुर्थः सर्गः॥ Jain Education Interne For Private & Personal use only Kolkww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy