SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सगरख विनीतायां प्रवेशः क्षणादवस्थावैचित्र्यं, प्रपेदे तव दर्शनात् । तत् त्रायस्व जगत्रातर्न यावत् सा विपद्यते ॥ ३३०॥ सोविदल्ले वदत्येवं, सहस्रनयनोऽपि सः । आययौ नभसा तत्र, नमश्चक्रे च चक्रिणम् ॥ ३३१॥ सोऽनुमान्य निजावासेऽनपीत् सगरचक्रिणम् । स्त्रीरत्नस्य सुकेशाया, दानाच तमतोषयत् ॥ ३३२ ॥ ततश्च तौ विमानेन, सहस्रेक्षण-चक्रिणौ । वैताढ्यशैले ययतुः, पुरं गगनवल्लभम् ॥ ३३३ निवेश्य पैतृके राज्ये, सहस्रनयनं ततः। सर्वविद्याधराधीश, व्यधत्त धरणीधवः ॥ ३३४ ॥ स्त्रीरत्नं तदुपादाय, सगरश्चक्रवर्त्यथ । जगाम साकेतपुरं, पुरन्दरपराक्रमः ॥ ३३५ ॥ समुद्दिश्य विनीतां च, चक्रेऽष्टमतपो नृपः । पौषधं पौषधागारे, प्रपेदे च यथाविधि ॥ ३३६ ॥ अष्टमान्ते च निष्क्रम्य, पौषधागारतस्ततः । समं परिजनैश्चक्रे, पारणं धरणीधवः ॥ ३३७ ॥ पदे पदे तोरणिनी, भूविकारवतीमिव । मुक्तास्वस्तिकसन्दोहकान्तिभिः समितामिव ॥ ३३८॥ अट्टशोभापताकाभिर्नर्तनायोद्भुजामिव । धूपघट्युत्थधूमाल्या, कृतपत्रलतामिव ॥ ३३९ ॥ मञ्चस्थरत्नपात्रीभिर्नेत्रविस्तारिणीमिव । मञ्चैर्विचित्रैरचितशयनीयामिवोचकैः ॥ ३४०॥ विमानकिङ्किणीकाणैर्मङ्गलोद्गायनीमिव । पुरी वासकसञ्जां तां, प्रविवेश विशांपतिः ॥ ३४१॥ ॥चतुर्भिः कलापकम् ।। उत्तोरणमुत्पताकमुद्वैतालिकमङ्गलम् । विमानमिव शक्रः खं, गृहाङ्गणमगानृपः ॥ ३४२ ॥ सान्निध्यभाजां देवानां, स सहस्राणि पोडश । द्वात्रिंशतं सहस्राणि, तथा वसुमतीभुजाम् ॥ ३४३॥ उम्रियते । २ कबुकिनी। * °नुशाप्य निजा सङ्घ १॥ ३ प्रियसमागमवासरे सज्जाम् । Jain Education inclu For Private & Personal Use Only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy