SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ RECENESELECORRECENGA दिने दिने योजनिकैः, प्रयाणैः सुखमापतन् । सगरो नगरी प्राप, विनीतां दयितामिव ॥ ३०१॥ ॥चतुर्भिः कलापकम् ॥ विनीतायाः परिसरे, सरित्पतिरिवावधौ । निवेश्य शिबिरं राजाऽवतस्थे स्थेमपर्वतः ॥३०२॥ तत्राऽपरेयुः सगरो, वाह्याल्यां वाहँकेलये । एकं सूकलमारुह्य, ययौ सर्वकलानिधिः॥ ३०३ ॥ तत्र विक्रमयामास, चतुरं तं तुरङ्गमम् । उत्तरोत्तरधारासु, क्रमेणाऽऽरोपयच्च सः॥३०४॥ आरूढः पञ्चमी धारामुत्पपात नभस्तले । वल्गादिसंज्ञानभिज्ञीभूतो भूतैरिवाश्रितः ॥ ३०५ ॥ सगरं सोऽपहृत्याऽश्वोऽश्वरूप इव राक्षसः । महारण्ये प्रचिक्षेप, कालाक्षेपेण रंहसा ॥ ३०६ ॥ वल्गां सामर्षमाकृष्योरुभ्यां चाऽऽक्रम्य पार्श्वयोः । दधार सगरोऽश्वं तं, झम्पां दत्त्वोत्ततार च ॥३०७॥ विधुरस्तुरगः सोऽपि, पपात पृथिवीतले । पृथ्वीनाथोऽपि पादाभ्यामेव गन्तुं प्रचक्रमे ॥ ३०८॥ यावत् किश्चिद् ययौ तावद्, ददशैकं महासरः । आदित्यकरपर्यस्तां, भूभ्रष्टामिव चन्द्रिकाम् ॥ ३०९॥ तत्र श्रमापनोदाय, सत्रौ वन्य इव द्विपः । खादु स्वच्छं पद्मगन्धि, शीतं च स पयः पपौ ॥ ३१०॥ निर्ययौ सरसस्तस्मात, स तस्थौ तीरसीमनि । ददर्श चैकां युवति, जलदेवीमिवाऽग्रतः ॥३११॥ तां नवाम्भोजवदनां, नीलोत्पलविलोचनाम् । तरङ्गायितलावण्यजलां चक्रयुगस्तनीम् ॥ ३१२ ॥ मेरकोकनदोदामपाणि-पादमनोरमाम् । शरीरिणीं सरोलक्ष्मी, स पश्यन्नित्यचिन्तयत् ॥ ३१३ ॥ अप्सराः किं ? व्यन्तरी किं?, किमथो नागकन्यका विद्याधरी वा किमियं?, न सामान्येदृशी भवेत् ॥ पराक्रमगिरिः । २ अश्वक्रीडाभूमौ । ३ अश्वक्रीडायै । ४ उद्धृताश्वम् । ५ अविलम्बेन । * °स्तभू सङ्घ३॥ ६ रक्तकमलम् ।। Jain Education Internet For Private & Personal use only MINww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy