SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि द्वितीयं पर्व शलाकापुरुषचरिते ॥२५०॥ चतुर्थः सर्गः अजितसगरयोचरितम् । द्वात्रिंशताऽब्दसहस्रैः, सगरस्तदशात् सुखम् । अनुत्सुकानां शक्तानां, लीलापूर्वाः प्रवृत्तयः ॥२८७॥ चतुर्दशमहारत्नपतिर्नवनिधीश्वरः । द्वात्रिंशता सहस्रश्च, सेव्यमानो महीभुजाम् ॥ २८८॥ जायानां राजपुत्रीणां, 'तैः सहस्रैः समन्वितः। सहस्रैर्जानपदीनां, स्त्रीणां तावद्भिरन्वितः॥ २८९॥ द्वात्रिंशतो जनपदसहस्राणामधीश्वरः । द्वासप्ततेः पुरवरसहस्राणां च शासिता ॥ २९॥ एकसहस्रोनद्रोणमुखलक्षस्य चाऽधिपः । पत्तनाष्टचत्वारिंशत्सहस्राणामधीश्वरः ॥ २९१ ॥ कर्बटानां मडम्बानां, चतुर्विशिसहस्रपः । चतुर्दशसहरूयाश्च, सम्बाधानामपीश्वरः ॥ २९२॥ खेटकानां सहस्राणि, षोडशाऽपि च रक्षिता । तथाऽऽकरसहस्राणां, विंशतेरेक ईशिता ॥ २९३ ॥ पञ्चाशतः कुराज्यानामेकोनायाश्च नायकः । अन्तरोदकषट्पञ्चाशतश्च परिपालकः ॥ २९४ ॥ प्राप्तः षण्णवतिग्रामकोटीनां स्वामितां च ताम् । पत्तीनां पण्णवत्या च, कोटिभिः परिवारितः॥२९५॥ कुञ्जराणां वाजिनां च, रथानां च पृथक पृथक् । लक्षाभिश्चतुरशीत्या, छादितावनिमण्डलः ॥ २९६ ॥ ततो निववृते चक्री, चक्ररत्नपथानुगः । ऋद्ध्या महत्या सम्पूर्णः, पोतो द्वीपान्तरादिव ॥ २९७॥ ॥दशभिः कुलकम् ॥ ग्रामेशैर्दुर्गपालैश्च, मण्डलेशैश्च वर्त्मनि । क्रियमाणोचितार्घश्रीर्द्वितीयाचन्द्रमा इव ॥ २९८ ॥ प्रसारिभिरभिव्योम, पुरतः सैन्यरेणुभिः। शस्यमानागमो दूराद्, वर्धापकनरैरिव ।। २९९ ॥ हेषितैबृंहितैन्दिघोषैस्तूर्यारवैरपि । स्पर्धयेव प्रसृमरैर्दिशो बधिरयन्निव ॥ ३०॥ द्वात्रिंशता। २ अन्तरद्वीपः । सगरस्य दिग्विजयः ॥२५०॥ Jain Education For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy