________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व चतुर्थः सर्गः अजितसगरयोश्चरितम् ।
॥२४९॥
हिमाचलकुमारस्य, चक्रेऽथाऽष्टाह्निकोत्सवम् । ऋद्ध्या महत्या सगरः, पूर्णदिग्जयसङ्गरः ॥ २५८॥ ___ मार्गेणोत्तरपूर्वेण, चक्ररत्नानुगस्ततः । गङ्गादेवीभवनाभिमुखं सुखमगान्नृपः ॥ २५९॥ निदधे शिबिरं गङ्गासद्मनोऽनतिदूरतः। विदधेऽष्टमभक्तं च, गङ्गामुद्दिश्य भूपतिः॥२६॥ सिन्धुदेवीव गङ्गाऽपि, विज्ञायाऽऽसनकम्पतः । उपतस्थेऽन्तरिक्षस्थाऽटमान्ते चक्रवर्तिनम् ॥ २६१॥ सहस्रं रत्नकुम्भानामष्टोत्तरमदत्त च । स्वर्ण-माणिक्यचित्रं च, रत्नसिंहासनद्वयम् ॥ २६२ ॥ विसृज्य गङ्गां सगरो, विदधेऽष्टमपारणम् । अष्टाह्निकोत्सवं चाऽस्याः, प्रीतये प्रीतमानसः॥ २६३ ।।
चक्रादिष्टेन मार्गेण, दिशा दक्षिणया ततः। सोऽखण्डविक्रमः खण्डप्रपाताभिमुखं ययौ ॥२६४॥ आरात् खण्डप्रपातायाः, स्कन्धावारं न्यधत्त सः । नाट्यमालकमुद्दिश्याऽष्टमभक्तं चकार च ॥२६५॥ अष्टमान्ते नाट्यमालो, विज्ञायाऽऽसनकम्पतः । सोपायन उपागच्छद्, ग्रामेश इस भूपतिम् ॥ २६६ ॥ नानाविधानलङ्कारान्, स ददौ चक्रवर्तिनः । प्रत्यपद्यत सेवां च, विनीतो मण्डलेशवत् ॥२६७॥ विसृज्य तं च सगरः, पारणानन्तरं मुदा । अष्टाह्निकां तस्य चक्रे, कृतप्रतिकृतोपमाम् ॥ २६८ ॥ - अथ चक्रधरादेशात, सेनानीरसेनया । सिन्धुनिष्कुटवद् गाङ्गं, प्राग्निष्कुटमसाधयत् ॥ २६९ ॥ वैताठ्यपर्वतश्रेणिद्वयविद्याधरानथ । पर्वतीयानिव नृपान्, सगरस्तरसाऽजयत् ॥ २७॥ रत्नालङ्कार-वासांसि, हस्तिनस्तुरगांश्च ते । चक्रनाथस्य ददिरे, सेवां च प्रतिपेदिरे ॥ २७१ ॥ विद्याधरान् धराधीशः, सत्कृत्य विससजे तान् । तुष्यन्ति हि महीयांसः, सेवामय्या गिरापि हि ॥२७२।।
प्रतिज्ञा।
सगरस्य दिग्विजयः
॥२४९॥
Jain Education
a
l
For Private & Personal use only
___www.jainelibrary.org