SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ चर्मणा पूर्ववत् सिन्धुमुत्तीर्य पृतनापतिः । गिरि-सागरमर्यादानजयत् सिन्धुनिष्कुटान् ॥ २४३॥ म्लेच्छानां दण्डमादाय, दण्डेशश्चण्डविक्रमः। आययौ सगरं वारिसम्पूर्ण इव वारिदः॥२४४॥ भोगान् विचित्रान् भुञ्जानः, सोऽय॑मानो महीश्वरैः। तत्रैवाऽस्थाचिरं नास्ति, विदेशः कोऽपि दोष्मताम् ॥ __ अन्यदा चक्रिणश्चक्रं, निश्चक्रामाऽऽयुधौकसः । मार्गेणोत्तरपूर्वेण, ग्रीष्मे बिम्बमिवोष्णगोः ॥२४६॥ गच्छंश्चक्रानुगो राजा, क्षुद्रस्य हिमवद्गिरेः । नितम्ब दक्षिणं प्राप, दत्तावासोऽध्युवास च ॥ २४७॥ उद्दिश्य क्षुद्रहिमवत्कुमारं तत्र सोऽकरोत् । तपोष्टमं पौषधं चोपाददे पौषधौकसि ॥ २४८॥ पौषधान्ते रथारूढोऽगात् क्षुद्रहिमवद्गिरिम् । जघान च रथाओण, स त्रिर्दन्तेन दन्तिवत् ॥ २४९ ॥ नियम्य तुरगांस्तत्र, कृत्वाऽधिज्यं शरासनम् । निजनामाङ्कितं बाणं, विससर्ज नरेश्वरः ॥ २५०॥ द्वासप्ततिं योजनानि, गत्वा क्रोशमिव क्षणात् । सोऽपतत् क्षुद्रहिमवत्कुमारस्य पुरो भुवि ॥२५१ ॥ क्षणं चुकोप बाणेन, बाणनामाक्षरैः पुनः । क्षणादशाम्यत् स क्षुद्रहिमाचलकुमारकः॥२५२ ॥ गोशीर्षचन्दनं सर्वोषधीः पद्महदोदकम् । देवदृष्याणि तं बाणं, रत्नालङ्करणानि च ॥ २५३ ॥ देवेद्रुपुष्पमालाश्चोपनिन्ये सगराय सः । प्रत्यपद्यत सेवां च, जयेत्युक्त्वा नभःस्थितः ॥ २५४॥ तं विसृज्य ततो राजा, वालयित्वा निजं रथम् । ययावृषभकूटादि, त्रिर्जघान तथैव तम् ॥ २५५ ॥ अश्वान् नियम्य काकिण्या, प्राग्भागे तस्य भूभृतः । द्वितीयः सगरश्चक्रीत्यक्षराणि लिलेख सः॥२५६॥ ततो रथं वालयित्वा, स्कन्धावारमुपेत्य च । विदधेऽष्टमभक्तान्तपारणं पृथिवीपतिः ॥ २५७॥ १ सूर्यस्य । २ कल्पवृक्षपुष्पमालाः । Jain Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy