SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ हे वत्सा ! हेतुना केन, यूयमेवं हि तिष्ठथ ? । अविलम्बेन तं ब्रूत, यथा वः प्रतिकुर्महे ॥ २१३ ॥ ततः किराता इत्यूचुः, कोऽप्यसौ विषयेत्र नः । प्राविशद् दुःप्रवेशेऽपि, पयोधाविव वाडवः ॥२१४ ॥ वयं तेन पराभूता, युष्मान् शरणमाश्रिताः। स यथा याति भूयोऽपि, नाऽऽयाति च तथाऽस्तु नः॥२१५॥ तेऽप्यभ्यधुः सुरा एवं, कृशानोः शलभा इव । यूयमस्याऽनभिज्ञाः स्थ, तेनेदमभिधत्थ भोः ॥२१६॥ अयं हि सगरो नाम, चक्रवर्ती महाभुजः । सुराणामसुराणां चाविजय्यः शक्रविक्रमः ॥२१७॥ शस्त्रा-ग्नि-विष-मत्रा-ऽम्बु-तत्र-विद्याद्यगोचरः। उपद्रोतुं वज्र इव, नहि केनापि शक्यते ॥ २१८॥ तथापि वोऽनुरोधेन, चक्रिणोऽस्य महौजसः । मशकाः कुञ्जरस्येव, करिष्याम उपद्रवम् ।। २१९ ।। इत्युदित्वा तिरोभूय, ते मेघवदनाः सुराः । स्कन्धावारोपरि स्थित्वा, तेनिरे घोरदुर्दिनम् ॥ २२०॥ नीरन्ध्रेणान्धकारेणाऽपूर्यन्त ककुभस्तथा । जनुषाऽन्धलवद् रूपं, नोपलेभे यथा जनः ॥ २२१॥ धाराभिस्तेऽथ मुसलमानामिः शिविरोपरि । सप्तरात्रं प्रववृषुरनिर्विण्णाः समीरवत् ।। २२२ ॥ अरिष्टवृष्टिमच्छिन्नां, प्रेक्ष्य तां चक्रवर्त्यपि । स्वयं पाणिसरोजेन, चर्मरत्नं परामृशत् ॥ २२३ ॥ स्कन्धावारप्रमाणेन, ववृधे तत् क्षणादपि । तच्च तिर्यक् समास्तीण, ततार सलिलोपरि ॥२२४॥ महापोतमिवाऽऽरोहत, ससैन्यस्तन्नरेश्वरः । छत्ररत्नं च संस्पृश्याऽतानयचर्मरत्नवत् ॥ २२५॥ चक्रे चर्मोपरि च्छत्रं, सोऽभ्रं भुव इवोपरि। मणिरत्नं न्यधाच्छत्रदण्डान्ते द्योतहेतवे ॥ २२६॥ छत्र-चर्मान्तरे तस्थौ, तद् राज्ञः शिबिरं सुखम् । असुर-व्यन्तरगण, इव रत्नप्रभान्तरे ॥ २२७॥ १ अग्नेः । २ दिशः । ३ जम्मान्धवत् । मुसलप्रमाणाभिः । ५ अखण्डाम् । ६ पस्पर्श । विस्तारितम् । ८ विस्तारयामास । त्रिषष्टि. ४३ Jain Education Inted For Private & Personal use only www.iainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy