________________
ततश्चक्रानुगश्चक्री, केसरीवास्खलद्गतिः । पञ्चाशद्योजनायामां, तमिस्रां प्राविशद् गुहाम् ।। १८६ ॥ गोमत्रिकाक्रमेणाऽथ, गुहाभियोर्द्वयोरपि । पञ्चधन्वशतीभाञ्जि, विष्कम्भा-ऽऽयाममानयोः॥१८७ ॥ योजनान्तरितान्येकहीनां पञ्चाशतं नृपः । ध्वान्तनाशाय काकिण्या, मण्डलान्यालिखन् ययौ ॥१८८॥ उद्घाटितं गुहाद्वार, गुहान्तमण्डलानि च । तावत् तान्यपि तिष्ठन्ति, यावजीवति चक्रभृत ॥ १८९॥ मानुषोत्तरसीमस्थचन्द्र-सूर्यपरम्पराम् । विडम्बयद्भिरुयोतो, गुहान्तस्तैरजायत ॥ १९ ॥ निर्यान्त्यौगुहाप्राग्भित्तेः, प्रत्यग्भित्तेश्च मध्यतः। प्रापोन्मना-निमग्नाख्ये, निम्नगे सोऽथ सिन्धुगे॥१९॥ उन्मनायां विनिक्षिप्ता, प्रोन्मजति शिलापि हि । निमग्नायां पुनः क्षिप्तमलाब्वपि निमज्जति ॥१९२॥ सद्यो वर्धकिरत्नेन, बद्धया पद्यया च ते । अलङ्घत गृहस्रोतोलीलया सबलो नृपः ॥ १९३॥ स क्रमेण तमिस्राया, उत्तरं द्वारमासदत् । व्यघटेतां तत्कपाटे, स्वयमेवाऽजकोशवत् ॥ १९४ ॥ निर्जगाम गुहामध्यादब्धिमध्यादिवाय॑मा । सगरः सपरीवारो, वारणस्कन्धमाश्रितः ॥ १९५॥ न्यत्कारकारिणं भानोः, सर्वतोऽप्यस्त्रदीप्तिभिः । भूरजोभिः खेचरीणां, दृग्निमेषविशेषदम् ॥ १९६ ॥ सैन्यप्राग्भारभारेण, भूमिकम्पविधायिनम् । दिवस्पृथिव्योस्तुमुलध्वानर्वाधिर्यदायिनम् ॥ १९७ ॥ अप्यकाण्डे काण्डपटमध्यादिव विनिर्गतम् । नभस्तलादिवाऽऽयातं, पातालादिव चोत्थितम् ॥ १९८॥ अनन्तसैन्यगहनं, पुरश्चक्रेण भीषणम् । सगरं सागरमिवाऽऽपतन्तं प्रेक्ष्य तत्क्षणात् ॥ १९९ ॥ १ नद्यौ । २ तरति । ३ तुम्बिका । ४ नद्यौ । ५ तिरस्कारकारिणम् । ६ बधिरत्वदायिनम् ।
Jan Education Inter
For Private & Personal use only
Rilwww.jainelibrary.org