________________
त्रिषष्टिशलाका
पुरुषचरिते
द्वितीय पर्व चतुर्थः सर्गः अजितसगरयोचरितम् ।
॥२४६॥
स्यन्दनान्यन्यदपि यत्, प्रकृष्टं वस्तु किश्चन । सेनान्ये तदुपनिन्युासार्पितमिवाऽथ ते ॥ १७२ ॥
॥ युग्मम् ॥ कुटुम्बिका इव वयं, करदा वशगाश्च वः । स्थास्यामोऽत्रेति सेनान्यं, ते बद्धाञ्जलयोऽवदन् ॥ १७३ ॥ तत्प्राभृतमुपादाय, व्यसृजत् तांश्चमूपतिः । एत्योत्ततार सिन्धुं च, चर्मरत्नेन पूर्ववत् ॥ १७४ ॥ गत्वोपनिन्ये तत्सर्व, सगराय स भूभुजे । कृष्टाश्चेव्य इवाऽऽयान्ति, शक्त्या शक्तिमतां श्रियः॥१७५॥ दूरदूरादेत्य भूपैः, सरिद्भिरिव सागरः। उपास्यमानः सगरस्तत्राऽस्थाच्छिबिरे चिरम् ।। १७६ ॥
तमिस्रादक्षिणद्वारकपाटोद्घाटनाय सः । सेनान्यमन्यदाऽऽदिक्षद्, बिभ्राणं दण्डकुश्चिकाम् ॥१७७॥ स गत्वोपतमिस्त्रं च, कृतमालामरं प्रति । चक्रेऽष्टमतपः प्रायस्तपोग्राह्या हि देवताः ॥ १७८॥ अष्टमान्ते कृतस्नानः, शुचिवस्त्रविलेपनः । उपात्तधूपदहनोज्गाद् गुहां देवतामिव ॥ १७९ ॥ कृत्वा प्रणाममालोकमात्रेऽपि पृतनापतिः । तस्या द्वारे द्वा:स्थ इव, दण्डपाणिरवास्थित ॥ १८॥ विधायाऽष्टाहिकां तस्या, लिखित्वा चाऽष्टमङ्गलीम् । दण्डरत्नेन सेनानीस्तत्कपाटावताडयत् ॥ १८१॥ सैरत्सरिति संरावं, कुर्वाणो तत्क्षणादथ । व्यघटेतां तत्कपाटौ, शुष्कशिम्बापुटाविव ॥ १८२ ॥ कपाटोद्धाटनं तच्च, शशंस सगराय सः । सरत्सरिति निर्घोषकथितं पुनरुक्तवत् ॥ १८३ ॥ हस्तिरत्नं समारुह्य, चतुरङ्गचमूवृतः । दिक्पालानामेकतम, इव तत्राऽऽययौ नृपः ॥ १८४॥ निदधे दक्षिणे कुम्भे, कुम्भिरत्नस्य भूपतिः । मणिरत्नं मल्लिकायां, प्रदीपमिव भासुरम् ॥ १८५ ॥ १ दास्यः । * पाणिरिवास्थि सङ्घ १ ॥२ सर सर इतिरूपं शब्दम् । ३ दीपिकायाम् ।
सगरस्य दिग्विजयः
॥२४६॥
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org.