________________
Jain Education In
'अत्रवेदः शरीरीव, सर्वायुधविचक्षणः । कृतस्नानः कृतप्रायश्चित्त कौतुकमङ्गलः ॥ १५८ ॥ सितपक्ष इव स्वल्पनक्षत्रमणिभूषणः । शरासनधरो धीरः, सेन्द्रचाप इवाम्बुदः ॥ १५९ ॥ सविद्रुमवितानोऽब्धिरिव चर्माख्यरत्नभृत् । सरोवत् पुण्डरीकेणोद्दण्डेनोपरि शोभितः ॥ १६० ॥ भश्चामराभां श्रीखण्डस्थासकाभ्यामिवांसयोः । तूर्यनादैर्नादयन् द्यां स्तनितैरिव वारिदः ॥ १६९ ॥ सैन्येन चतुरङ्गेण, सेनानीः परिवारितः । आरुह्येभवरं सिन्धुप्रवाहाभ्यर्णमाययौ ॥ १६२ ॥ ॥ अष्टभिः कुलकम् ॥
अथ पस्पर्श सेनानी चर्मरत्नं स्वपाणिना । तदन्तः सिन्धु ववृधे, नावाकारं बभूव च ॥ १६३ ॥ तेनोत्ततार तां सिन्धुं, सह चम्बा चमूपतिः । अपारमिव संसारं, योगीन्द्रो योगलीलया ।। १६४ ॥ सिन्धुतीरादथ स्तम्भादिव मत्तमतङ्गजः । प्रससार महासारोऽस्खलितं पृतनापतिः ।। १६५ ।। सिंहलकान् वर्बरकांष्टङ्कणानितरानपि । द्वीपं च यवनद्वीपमाचक्राम चमूपतिः ॥ १६६ ॥ कालमुखान् जोनकांच, तथा वैताढ्य संश्रिताः । नानाविधा म्लेच्छजातीः, स स्वच्छन्द मदण्डयत् ॥१६७ समस्तदेशप्रवरं, कच्छदेशं च लीलया । महोक्ष इव सेनानीरुपदुद्राव विक्रमी ।। १६८ ।। तदन्तात् प्रतिनिवृत्य, तस्यैवोर्वीतले समे । अवतस्थे चमूनाथोऽम्भः क्रीडोत्तीर्णहस्तिवत् ॥ १६९ ॥ म्लेच्छा मडम्ब - नगर - ग्रामादीनामधीश्वराः । तं तत्रेयुः सर्वतोऽपि, पाशाकृष्टा इव द्रुतम् ॥ १७० ॥ भूषणानि विचित्राणि रत्नानि वसनानि च । रजतं च सुवर्णं च, तुरङ्गान् कुञ्जरानपि ॥ १७१ ॥ १ धनुर्वेदः । २ शुक्लपक्षः । ३ शोभमानः । ४ सेनापतिः ।
For Private & Personal Use Only
www.jainelibrary.org.