SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीय पर्व | चतुर्थः सर्ग: अजितसगरयोचरितम् । ॥२४५॥ खं बान्धवमिवाऽभीष्टं, तमाभाष्य सगौरवम् । सगरो विससर्जाऽथ, चकाराऽष्टमपारणम् ॥ १४३॥ वैताड्याद्रिकुमारस्य, चक्रे चाऽष्टाह्निकोत्सवम् । निजप्रसादप्रासादसुवर्णकलसोपमम् ॥ १४४॥ ततश्चक्रानुगो गत्वा, तमिस्रा निकषा गुहाम् । पञ्चानन इवोवास, निधाय शिबिरं नृपः ॥१४५॥ कृतमालाभिधं तत्र, देवं मनसिकृत्य सः । चक्रेऽष्टमतपः कृत्यं, महान्तो न त्यजन्ति हि ॥१४६ ॥ राज्ञोऽष्टमे परिणमत्यकम्पत तदासनम् । तादृशामभियोगे हि, कम्पन्ते पर्वता अपि ॥ १४७ ॥ ज्ञात्वाऽवधिप्रयोगेण, कृतमालोऽपि चक्रिणम् । उपस्थितं प्रभुमिवोपतस्थे गगनस्थितः ॥१४८ ॥ स्त्रीरत्नयोग्यं तिलकचतुर्दशमदत्त सः। नेपथ्यजातं वस्त्राणि, गन्ध-चूर्ण-स्रगादि च ॥ १४९ ॥ देवो जय जयेत्युक्त्वा, स सेवा प्रत्यपद्यत । सेवनीयाश्चक्रिणो हि, देवैरपि नरैरिव ॥ १५० ॥ प्रसादपूर्वमालप्य, नृपतिर्विससर्ज तम् । चक्रे च सपरीवारोऽष्टमभक्तान्तपारणम् ॥ १५१॥ देवस्य कृतमालस्य, सादरः सगरस्ततः । अष्टाह्निकोत्सवं चक्रे, देवानां प्रीतिदं ह्यदः ॥१५२ ॥ __अष्टाह्निकान्ते सगरः, पश्चिमं सिन्धुनिष्कुटम् । *विजेतुमर्धसैन्येन, सैन्यनाथं समादिशत् ॥१५३॥ अथ तन्मेदिनीभर्तुः, शासनं रचिताञ्जलिः । शिरसा प्रतिजग्राह, मालामिव चमूपतिः ॥१५४॥ विख्यातो भारते वर्षे, महाबल-पराक्रमः । नभस्वानिव विवस्वानिव चोग्रेण तेजसा ॥ १५५॥ समस्तम्लेच्छभाषाज्ञः, समस्तलिपिपण्डितः। विचित्रचारुभाषी च, सरस्वत्या इवाऽऽत्मजः ॥१५६ ॥ निष्कुटानामशेषाणां, भरतक्षेत्रवर्तिनाम् । जल-स्थलजदुर्गाणां, विज्ञाताऽऽगम-निर्गमौ ॥ १५७ ॥ १ उद्योगे। २ स्वीकृतवान् । * निर्जेतु सङ्घ २॥ ३ वायुः । ४ सूर्यः । SCSCASSAMASSAGARCASASCANCE सगरस्य | दिग्विजयः ॥२४५॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy