SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ RAISEASEASEANSEX सिन्धुदेवीसमनश्चाऽदूरतः शिबिरं न्यधात् । सद्योऽवतीर्णगन्धर्वपुरोपममिलापतिः ॥१२८ ॥ सिन्धुदेवीं च मनसि, कृत्वाऽष्टमतपो नृपः । चकार सिन्धुदेव्याश्च, रत्नासनमकम्पत ॥ १२९॥ विदाञ्चकाराऽवधिना, सा च चक्रिणमागतम् । उपायनकरा भक्तिपराऽथ तमुपाययौ ॥१३०॥ अष्टोत्तरं रत्नकुम्भसहस्रं निधिसोदरम् । मणि-रत्नविचित्रं च, स्वर्णभद्रासनद्वयम् ॥ १३१॥ केयूर-कटकादीनि, रत्नालङ्करणानि च । देवदृष्याणि च ददौ, भृभुजे सा नभस्थिता ॥१३२॥ युग्मम् ॥ इत्यभाषिष्ट सा देवी, नरदेववराऽधुना । भवद्विषयवास्तव्या, किङ्करीवासि शाधि माम् ॥ १३३ ॥ अतिपीयुषगण्डपैर्वचोभिः प्रतिभाष्य ताम् । विससर्ज महीनाथश्चके चाऽष्टमपारणम् ॥ १३४ ॥ विदधे सिन्धुदेव्याश्च, प्राग्वदष्टाह्निकोत्सवम् । महात्मनां महीनामुत्सवा हि पदे पदे ॥ १३५॥ चक्रमायुधशालायाः, स्वशालाया इव द्विपः । निर्जगाम श्रियां धाम, केकुभोत्तरपूर्वया ॥ १३६ ॥ नृपस्तदनुगच्छंश्च, दिनैः कतिपयैरपि । नितम्बं दक्षिणं प्राप, वैताव्यस्य महागिरेः ॥ १३७॥ निधाय तत्र शिविरं, विद्याधरपुरोपमम् । अधिवैताठ्यकुमार, सोऽष्टमं विदधे तपः॥१३८ । महीपतेः परिणमत्यष्टमे च तपस्यथ । वैताठ्याद्रिकुमारस्य, सिंहासनमकम्पत ॥ १३९॥ वैताठ्याद्रिकुमारोऽपि, बुबुधेऽवधिना ततः। भरतार्धावधावभ्युपेतं सगरचक्रिणम् ॥ १४०॥ सोऽभ्येत्य राज्ञे रत्नानि, दिव्यानि वसनानि च । ददौ नभःस्थितो भद्रासन-वीरासनानि च ॥१४१॥ चिरं जीव चिरं नन्द, चिरं जय जयेति च । सौवस्तिक इव माऽऽह, स हृष्टः पृथिवीपतिम् ॥१४२ ॥ । त्वद्देशवासिनी । २ दिशया। ३ पूर्णे। ४ भरतार्धस्य सीमनि । ५ स्वस्तिवाचको द्विजः । Jan Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy