SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ द्वितीयं पर्व चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ॥२४४॥ ROSSIGGUGGE सर्ग: अजितसगरयोश्चरितम् । सुराष्ट्रान नाष्ट्रवत् क्रूरान्, विदधानो वशंवदान् । पश्चिमाम्भोनिधे रोधः, क्रमेण प्राप पार्थिवः॥११४॥ ॥पञ्चभिः कुलकम् ॥ स्कन्धावारमधिष्ठाय, प्रभासमधिकृत्य सः । कृताष्टमोऽथ जग्राह, पौषधं पौषधौकसि ॥११५॥ अष्टमान्ते रविरिवाऽऽरुह्य राजा महारथम् । नाभिदन्नं जलं यावजगाहे लवणोदधिम् ॥ ११६ ॥ तत्राधिज्यं धनुः कृत्वा, ज्यानिर्घोषं ततान सः । बाणप्रयाणकल्याणजयातोद्यरवोपमम् ॥ ११७॥ अधिप्रभासतीर्थेशनिवासमथ सायकम् । खनामाकं स सन्देशहरं दूतमिवाऽमुचत् ॥ ११८॥ अन्ते द्वादशयोजन्याः, प्रभाससुरसमनि । स तत्र न्यपतत् पैत्री, पतत्रीव महाद्रुमे ॥ ११९ ॥ सोऽपि तं पत्रिणं प्रेक्ष्य, प्रेक्षापूर्वकृतां वरः। अवाचयत् तत्र नामवर्णान् सगरचक्रिणः ॥ १२० ॥ उपात्तोपायनः सोऽथ, तमुपादाय सायकम् । भक्त्याऽतिथिं गुरुमिवाऽभ्यागमत् सगरं नृपम् ॥१२१॥ चूडामणिं निष्कोरस्के, कटकान् कटिसूत्रकम् । केयूरे चाऽऽर्पयद् राज्ञे, तं चेषु स नभःस्थितः ॥१२२॥ स विनीतो विनीतेशमित्यूचे विषयेऽत्र हि । चक्रवर्तिस्त्वदादेशवर्ती वत्स्याम्यतः परम् ॥ १२३॥ उपायनमुपादाय, समालप्य च सादरम् । विससर्जाऽऽयुक्तमिव, प्रभासं भूमिवासवः॥१२४ ॥ सगरः शिविरं गत्वा, स्नात्वा कृतजिनार्चनः । चकाराऽष्टमभक्तान्ते, पारणं सपरिच्छदः॥ १२५॥ प्रभासतीर्थाधिपतेर्वरदामपतेरिव । अष्टाह्निकोत्सवं चक्रे, प्रीतो वसुमतीपतिः॥१२६॥ अनुचक्रं ततश्चक्री, सिन्धोर्दक्षिणरोधसा । प्रतीपगामिसिन्ध्वेव, सेनया प्रामुखो ययौ ॥१२७॥ १ राक्षसवत् । २ शरः। ३ पक्षीव । ४ भृत्यमिव । सगरस्य दिग्विजयः ॥२४४॥ SA Jain Education a l For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy