SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ दृष्ट्वा सगरराजस्य, तत्र नामाक्षराणि सः। शशाम नागदमनीमवलोक्येव पन्नगः॥ ९९॥ आख्यच्च पर्षदे खस्यै, जम्बूद्वीपस्य भारते । चक्रभृत् सगरो नाम, द्वितीय उदपद्यत ॥१०॥ वस्वैश्चित्रैमहामूल्यै, रत्नालङ्करणैरपि । ततश्च पूजनीयोऽयं, देवतेव गृहागतः ॥ १०१॥ सोऽभिधायैवमुपदामुपादाय च सत्वरम् । उपतस्थेऽन्तरिक्षस्थो, रथस्थं पृथिवीपतिम् ॥ १०२॥ किरीट-रत्न-मुक्तास्रक्केयूर-कटकादि सः । कोशागारिकवद् राज्ञेऽर्पयामास शरं च तम् ॥१०३ ॥ वरदामाधिपोऽथैवमूचे स्थास्याम्यतः परम् । तवाऽऽदेशकरः शक्रदेश्यदेशे निजेऽपि हि ॥ १०४ ॥ तत्प्राभृतमुपादाय, तद्वचः प्रतिपद्य च । तं सत्कृत्य च कृत्यज्ञो, विससर्ज महीपतिः॥१०५॥ ततश्च ववले चक्री, चक्रमार्गानुगस्तथा । हेषमाणस्यन्दनाश्वो, जलवाजिविलोकनात् ॥ १०६ ॥ स्कन्धावारमुपेत्याऽथ, स रथादवरुह्य च । स्नात्वा कृत्वा जिनाचा च, चकाराऽष्टमपारणम् ॥ १०७॥ वरदामकुमारस्योद्दाममष्टाह्निकोत्सवम् । चकार सगरो भक्तेष्वीशा हि प्रतिपत्तिदाः ॥१०८॥ ततः प्रतस्थे पृथ्वीशश्चक्ररत्नपथानुगः । पश्चिमाभिमुखं मुष्णन्नुष्णांशुं सैन्यरेणुभिः ॥१०९॥ पनगानिव पक्षीन्द्रो, द्रविडान् द्रावयन् द्रुतम् । तेजसाऽन्ध्रानन्धीकुर्वन्नुलूकानिव भास्करः ॥११॥ त्याजयन् राज्यलिङ्गानि, त्रिंकलिङ्गैरसूनिव । कुर्वन् विदर्भान् निःसत्त्वान्, दर्भसंस्तरणानिव ॥१११॥ त्यक्तराष्ट्रान् महाराष्ट्रान्, कुर्वन् कर्पटिकानिव । कुर्वाणः कौङ्कणान् बाणैरङ्कितांस्तुरगानिव ॥११२॥ ललाटस्थाञ्जलील्लाटान, घटयन् सातपानिव । विष्वक् सङ्कोचयन् कच्छानतुच्छान् कच्छपानिव ॥११३॥ १ ओषधिभेदः । २ प्राभृतम् । ३ इन्द्रसदृशदेशे । ४ गौरवकारिणः । ५ सूर्यम् । ६ देशविशेषैः। ७ भिक्षुकानिव । Jain Education Inc . For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy