SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ द्वितीयं पर्व त्रिषष्टिशलाकापुरुषचरिते चतुर्थः ॥२४३॥ सर्गः अजितसगरयोश्चरितम् । नवानारोपयन् कांश्चित् , कीर्तिस्तम्भानिवोच्चकैः । कांश्चिन्मुञ्चन् नमयित्वा, नद्योघो वेतसानिव ॥८६॥ कुर्वन् कृत्ताङ्गुलीन् कांश्चित् , कांश्चिद् रत्नानि दण्डयन् । हस्त्यश्वं त्याजयन् कांश्चित्,कांश्चिच्छत्राणि मोचयन्।। क्रमादासादयामास, रोधो दक्षिणवारिधेः। सर्वदिग्जयनिर्माणे, सगरो दृढसङ्गरः॥ ८८॥* अवतीर्य करिस्कन्धात् , स्कन्धावारे क्षणात् कृते । विमाने वज्रभृदिवोवास वेश्मनि चक्रभृत् ॥ ८९ ॥ तत्र पौषधशालायां, कृताष्टमतपा नृपः । उद्दिश्य वरदामानं, तस्थौ स्वीकृतपोषधः ॥९॥ सगरोऽष्टमभक्तस्य, प्रान्ते पारितपौषधः । आच्छिन्नमिव मार्तण्डादारुरोह महारथम् ॥९१॥ नाभिदनो रथो यावदगाहत महोदधिम् । रथेन सगरस्तेन, मथेव दधिमन्थनीम् ॥ ९२॥ अधिरोप्य धनुर्भि, ज्यां टङ्कारमकारयत । आकर्ण्यमानं न्यत्कफर्यादोभित्रासविह्वलैः॥९३ ॥ अथेषुमिषुधेमध्याद्, भीषणेभ्योऽपि भीषणम् । अग्रहीदवनीनाथो, वार्तिकोऽहिं बिलादिव ॥ ९४॥ विधाय लँस्तकन्यस्तं, तं कर्णाभ्यर्णमानयत् । विज्ञप्तिकार्थिनमिव, सेवकं सायकं नृपः ॥ ९५॥ वरदामपतेर्धाम, प्रतीषु विससर्ज तम् । चक्रभृद् वज्रभृदिव, वज्रं प्रति शिलोच्चयम् ॥ ९६॥ वरदामकुमारस्य, सभायां तस्थुषः पुरः । निपपात शरोऽकाण्डमुद्गराघातसन्निभः ॥ ९७ ॥ अकाले कस्य कालेनोत्क्षिप्तं पत्रमिति ब्रुवन् । वरदामपतिर्बाणमुत्थाय स्वयमाददे ॥ ९८॥ १ छिन्नाङ्गुलीन् । २ दृढप्रतिज्ञः । * इतोऽने चतुर्भिकलापकम् इति सङ्घ ३ ॥ ३ इन्द्रः । ४ गृहीतम् । ५ तूणीरस्य । ६ गाडिकः। धनुर्मध्यदेशः। ८ विज्ञापनाचिकीर्षुम् । सगरस्य दिग्विजयः ॥२४३॥ Jain Education in For Private & Personal use only | www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy