SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आसाश्चक्रे धृतशरो, भूयः सिंहासने निजे । गिरा गम्भीरया स्वस्यां, पर्षयेवमुवाच च ॥ ७१ ॥ द्वीपस्य जम्बूद्वीपस्य, क्षेत्रे भरतनामनि । द्वितीयश्चक्रभृजज्ञे, सगरो नाम सम्प्रति ॥ ७२ ॥ अवश्यकृत्यं भूतानां, भाविनां च सतां तथा । मागधाधिपतीनां हि, प्राभृतं चक्रवर्तिषु ॥ ७३ ॥ स इत्युदीर्य निभृतं, प्राभृतैर्भूतकायितः। उपतस्थे सविनयः, सगरं चक्रवर्तिनम् ॥ ७४ ॥ तं शरं हार-केयर-ताडङ्क-कटकादिकम् । नेपथ्यं देवदृष्याणि, राज्ञेऽदात् स नभःस्थितः॥७५॥ अम्भो मागधतीर्थीयं, स मागधकुमारकः । नरेन्द्रस्याऽर्पयामास, रसेन्द्रमिव वार्तिकः ॥ ७६ ॥ अञ्जलिं रचयित्वोच्चैः, पद्मकोशविडम्बकम् । उवाच मागधपतिर्वसुधाधिपतिं ततः॥७७॥ एतस्मिन् भरतक्षेत्रे, प्राच्यां दिशि तवाऽस्म्यहम् । प्रान्तवत्यैकसामन्त, इवाऽऽदेशकरः सदा ॥७८ ॥ भृत्यत्वेन प्रतीयेष, ततस्तमवनीपतिः। विससर्ज च सत्कृत्य, दुर्गपालमिव स्वकम् ॥ ७९ ॥ उदयन्निव मार्तण्डः, सगरः सागराम्भसः । निर्जगाम निजेनोच्चै, रुन्धानस्तेजसा दिशः॥८॥ गत्वा च शिबिरं स्नान-देवार्चनपुरःसरम् । विदधे सपरीवारः, पारणं राजवारणः ॥ ८१॥ अथ मागधतीर्थाधिपतेरष्टाह्निकोत्सवम् । चक्रे चक्री स्वामिदत्तमाहात्म्याः खलु सेवकाः ॥ ८२॥ सर्वदिग्विजयश्रीणामर्पणप्रतिभृसमम् । चक्ररत्नं चक्रिणोऽथ, प्रतस्थे दक्षिणां प्रति ॥ ८३॥ अपाक्पश्चिममार्गेण, चक्री चक्रानुगस्ततः । प्रचचालाऽचलां सैन्यैः, साचलां चलयन्निव ॥ ८४॥ कानप्युन्मूलयन् राज्ञस्तरूनिव समीरणः । शालिस्तम्बानिवोत्खाय, कानपि प्रतिरोपयन् ॥ ८५ ॥ १ वर्तमानानाम् । २ भृत्य इवाचरितः । ३ सिद्धरसम् । ४ सिद्धपुरुषः। ५ साक्षी । ६ वसुधाम् । ७ पर्वतसहिताम् । Jain Education Internation For Private & Personal use only www.iainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy