SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ डरत्नेन, स्थलादिना सेनान्येव पुरोमास्तरयन भितो रथ-द्विप-ध्वजाग्रस्थपाठीन-मकरादिभिः । विदधानः सयादस्कमिव व्योममहार्णवम् ॥ ४४ ॥ सप्तधाप्रक्षरद्दानजलासारविराजिभिः । मतङ्गजघटास्तोमैर्दुर्दिनं दर्शयन्निव ॥४५॥ उत्साहादुत्प्लवमानामिवाऽध्यारुरुक्षुभिः । पदातिभिः कोटिसङ्ख्यैस्तिरयन्नभितो भुवम् ॥४६॥ अविषयप्रतापेन, सर्वत्राऽकुण्ठशक्तिना । सेनान्येव पुरोगेण, चक्ररत्नेन राजितः॥४७॥ सेनान्या दण्डरत्नेन, स्थलादिस्थपुटामपि । मतेनेव क्षेत्रमहीं, वसुधां कारयन् समाम् ॥ ४८॥ एकयोजनमानेन, प्रयाणेन दिने दिने । भद्रद्विप इवाऽध्वानमाक्रामन् गतिलीलया ॥४९॥ दिनैः कतिपयैः प्राच्यां, तुल्यः प्राचीनबर्हिषा । गङ्गामुखैकतिलकं, मागधक्षेत्रमासदत ॥५०॥ ॥नवभिः कुलकम् ॥ अभ्रंलिहेभशालाभिर्विशालाभिरनेकशः । महागुहासोदराभिर्मन्दुराभिः सहस्रशः॥५१॥ विमानमानिभिहम्यॆमेंघमन्यैश्च मण्डपैः। अद्वैः समानसंस्थानैरेकविम्बकतैरिव ॥५२॥ शृङ्गाटकादिरचनाराजिराजपथस्थितिम् । नवयोजनविस्तार, दैर्घ्य द्वादशयोजनम् ॥ ५३ ॥ स्कन्धावारं चक्रभृतः, सगरस्याऽऽज्ञया ततः । चकार वर्धकीरत्नं, विनीताया इवाऽनुजम् ॥ ५४॥ ॥ चतुर्भिः कलापकम् ॥ तत्र पौषधशालायां, चक्रेऽष्टमतपस्ततः । मागधतीर्थकुमारं, कृत्वा मनसि भूपतिः॥ ५५॥ स मुक्ताशेषनेपथ्यः, कुशसंस्तरसंश्रयः । मुक्तशस्त्रो ब्रह्मचारी, प्रतिजाग्रदवास्थित ॥५६॥ १ मत्स्यविशेषः । २ छादयन् । ३ विषमाम् । ४ इन्द्रेण । ५ अश्वशालाभिः । ६ समानाकृतिभिः। त्रिषष्टि. ४२ Jain Education in For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy