SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ द्वितीय पर्व त्रिपष्टिशलाकापुरुषचरिते चतुर्थः ॥२४॥ सर्गः अजितसगरयो. चरितम् । RECECARSA गत्वा स्नानगृहे स्नानं, पानीयैः पावनैरथ । चकार सगरो गङ्गास्रोतसीवेन्द्र कुञ्जरः ॥ २९॥ ' रत्नस्तम्भ इवोन्मृष्टदेहो दिव्येन वाससा । पर्यधाद् वसुधाधीशो, विशदे दिव्यवाससी ॥ ३०॥ गोशीर्षचन्दनरसैरच्छर्योत्स्वारसैरिव । अङ्गराग नरपतेर्विदधुर्गन्धकारिकाः ॥ ३१॥ . अलङ्कारानलश्चक्रे, स्वाङ्गसङ्गेन भूपतिः । प्रयान्ति ह्युत्तमस्थाने, भूषणान्यपि भूष्यताम् ॥ ३२ ॥ राजा मुहूर्ते मङ्गल्ये, पुरोधःकृतमङ्गलः। दिग्यात्रायै गजरत्नमारुरोहाऽसिरत्नभृत् ॥ ३३ ॥ अश्वरत्नं समारुह्य, दण्डरत्नं च पाणिना। बिभ्रत सेनापती रत्नं, प्रतस्थे भूपतेः पुरः॥ ३४ ॥ सर्वोपद्रवनीहारहरणे दिनरत्नवत् । पुरोधोरत्नमवनीनाथेन सह चाऽचलत् ॥ ३५ ॥ भोज्यदानक्षमः सैन्ये, प्रत्यावासं गृहाधिपः । सहाऽचलच्चित्ररसकल्पद्रुरिव जङ्गमः ॥ ३६॥ सद्यः पुरादिनिर्माणालङ्कर्मीणपराक्रमः । सहाऽगाद् विश्वकर्मेव, रत्नभूतोऽस्य वर्धकिः ॥ ३७॥ विस्तारिणी करस्पर्शाद्, रत्ने च च्छत्र-चर्मणी । अनुकूलानिलस्पर्शादभ्रवत् सह चेलतुः ॥३८॥ रत्ने च मणि-काकिण्यौ, तमिस्रक्षपणक्षमे । सहेयतुर्लघूभृतौ, जम्बूद्वीपरवी इव ॥ ३९ ॥ बहुदासीपरीवारं, स्त्रीराज्यत इवाऽऽगतम् । अन्तःपुरं सहाऽचालीद्, देहच्छायेव चक्रिणः ॥ ४० ॥ ककुभो द्योतयद् दूरादरीकृतककुब्जयम् । पुरोऽगात प्रामुखं चक्र, प्रताप इव भूपतेः॥४१॥ पुष्करावर्तकाम्भोदघटानिनदसोदरैः । यात्रातूर्यनिनादैर्दिग्गजानुकर्णतालयन् ॥ ४२ ॥ चक्र विक्रममाणाश्वखुरोत्खातैश्च पांसुभिः । एकीकुर्वन् द्यावा-भूमी, द्राक् सम्पुटपुटाविव ॥ ४३ ॥ हिमम् । २ सूर्यवत् । * र्णतां नयन् सङ्घ १॥ RECENOGRAMMECCAM सगरस्य दिग्विजयाय प्रयाणम् ॥२४॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy