________________
विमानमिव देवेन, दीव्यदुद्दामतेजसा । सनाथं तेन चक्रेणास्त्रागारं सगरो ययौ ॥ १४ ॥ ननामाऽऽलोकमात्रेऽपि, पञ्चाङ्गस्पृष्टभूतलः । चक्ररत्नं नभोरत्नतुल्यं वसुमतीपतिः॥ १५॥ सोऽमार्जद्धस्तविन्यस्तरोमहस्तस्तदञ्जसा । हस्त्यारोहो हस्तिवरमिव तल्पसमुत्थितम् ॥ १६ ॥ आनीयाऽऽनीय पानीयकुम्भैः पुम्भिः समर्पितैः । स चक्रं पयामास, देवताप्रतिमामिव ॥१७॥ चन्दनस्थासकांस्तत्र, स्थापयामास पार्थिवः । तदूरीकारदत्तस्वहस्तलक्ष्मीविडम्बिनः ॥१८॥ नृपतिश्चक्ररत्नस्य, विचित्रैः पुष्पदामभिः । जयलक्ष्मीपुष्पगृहोपमा पूजां चकार च ॥ १९॥ गन्धांश्च चूर्णवासांश्च, चक्रे चिक्षेप चक्रभृत् । प्रतिमायामिवाऽऽचार्यः, प्रतिष्ठासमये स्वयम् ॥२०॥ देवताहमहामूल्यैर्वस्त्रालङ्करणैरपि । अलश्चक्रे चक्ररत्नमात्मानमिव पार्थिवः ॥ २१॥ लिलेखाऽष्टौ मङ्गलानि, पुरोऽष्टाशाजयश्रियाम् । आकर्षणायाभिचारमण्डलानीव भूपतिः ॥ २२ ॥ अकरोदग्रतस्तस्य, कुसुमैः पञ्चवर्णकः । सारगन्धैरुपहारं, राजर्तुरिव सप्तमः ॥ २३ ॥ घनसारा-गुरुसारं, धृपं तस्याग्रतोऽदहत् । धूमैनरेन्द्रः कस्तूरीविलेपनमिवाऽऽदधत् ॥२४॥ तत्रिः प्रदक्षिणीकृत्य, सोऽपसृत्य च किञ्चन । चक्रं चक्री नमश्चक्रे, जयश्रीजन्मसागरम् ॥ २५॥ विदधेऽष्टाह्निकां तस्य, चक्ररत्नस्य तत्र सः । देवताया इव नवप्रतिष्ठाया महीपतिः॥२६॥ ऋद्ध्या महत्या चक्रस्य, चक्रे पूजामहोत्सवः । पौरैरपि पुरीपद्रदेवताया इवाऽखिलैः ॥२७॥
ततो वसुमतीनाथः, खं जगाम निकेतनम् । चक्रेणाऽऽमश्रित इव, दिग्यात्रायै समुत्सुकः ॥ २८॥ १ सूर्य तुल्यम् । २ हस्तधृतमयूरपिच्छमार्जनिकः । ३ हस्तिपकः। ४ सुप्तोत्थितम् । ५ अष्टदिन्जयलक्ष्मीणाम् ।
Jain Education Intel
For Private & Personal use only
www.janelibrary.org