SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः त्रिषष्टिशलाकापुरुषचरिते द्वितीय पर्व चतुर्थः सर्गः अजितसगरयो. चरितम्। ॥२४॥ इतश्च सगरस्याऽस्वमन्दिरे मेदिनीभुजः । सुवर्णमयनेमीकं, लोहिताक्षमयारकम् ॥१॥ विचित्र-स्वर्णमाणिक्यपण्टिकाजालमालितम् । सनान्दीघोषममलमणि-मौक्तिकमण्डितम् ॥२॥ वज्रनिर्मितनामीकं, किङ्किणीश्रेणिशोभितम् । सर्वतकुसुमस्रग्भिरर्चितं सविलेपनम् ॥३॥ अन्तरिक्षस्थितं यक्षसहस्रसमधिष्ठितम् । नाम्ना सुदर्शन चक्ररत्नं समुदपद्यत ॥४॥चतुर्भिः कलापकम् ॥ ज्वालामालाकरालं तच्चण्डांशोरिव मण्डलम् । आविर्भूतं प्रेक्ष्य चक्रमायुधागारिकोऽनमत् ॥५॥ अथ तच्चक्रमर्चित्वा, विचित्रैः पुष्पदामभिः । शर्शस मुदितो गत्वा, सत्वरं सगराय सः॥६॥ सिंहासनं पादपीठं, पादुके अपि तत्क्षणम् । उज्झाञ्चकार सगरो, गुरुसन्दर्शनादिव ॥७॥ पदानि कतिचिद् दत्त्वा, चक्रं मनसिकृत्य सः। ननाम देवतीयन्ति, यदस्त्राण्यस्त्रजी विनः ॥८॥ सिंहासने स आसित्वा, चक्रोत्पत्तिनिवेदिने । सर्व ददौ वाङ्गलग्नं, भूपणं पारितोषिकम् ।। ९॥ ततश्च पावनैर्नी विधाय स्नानमङ्गलम् । दिव्यालङ्कार-वस्त्राणि, पर्यवत्त महीपतिः ॥१०॥ पद्धयां चचाल भूपालश्चक्ररत्नमथाऽर्चितुम् । पादचारेणोप॑स्थानं, पूजातोऽप्यतिरिच्यते ॥११॥ धावद्भिः प्रस्खलद्भिश्च, पतद्भिश्वातिसम्भ्रमात् । सोऽन्वगामिनृपैः पादचारिभिः किङ्करैरिव ॥१२॥ सोऽनुसरोऽप्यनाहूतैः, पूजाद्रव्यकरैनरैः । खाधिकारप्रमादित्वं, भीतये ह्यधिकारिणाम् ॥ १३ ॥ १ सुवर्णमयधारम् । २ रत्नविशेषः। ३ माङ्गल्यशब्दः । ४ समीपगमनम् । सगरस्य चक्ररनोत्पत्तिः तत्पूजा च ॥२४॥ Jan Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy