________________
********
%**%*USHOGA
जिनप्रणीतो धर्मोऽयं, न प्रमाणं तदा किमु । न प्रमाणमिति युस्ते तु पापा विशेषतः ॥ ९३१॥ बालिशोऽपीदृशं किंखित, कुर्याद् यद् भवता कृतम् । ईदृग् नाऽतः परं कार्यमार्यपुत्राविचारितम्॥९३२॥
अभिधायेति सम्यक्त्वस्थिरीकरणहेतवे । इमं भर्तारमेषा स्वमनैषीदसदन्तिके ॥ ९३३ ॥ .. तदेतन्मनसिकृत्याऽनेन पृष्टं द्विजन्मना । सम्यक्त्वस्य प्रभावोऽयमित्यस्माभिश्च कीर्तितम् ॥ ९३४ ॥ आकर्ण्य तच्च भगवद्वचनं बहवोऽपरे । प्राणिनः प्रत्यबुध्यन्त, स्थिरधर्माश्च जज्ञिरे ॥ ९३५ ॥ शुद्धभट्टस्तु भट्टिन्या, समं भगवदन्तिके । परिव्रज्यामुपादत्त, क्रमेणाऽऽप च केवलम् ।। ९३६ ॥
तां देशनां स भगवानपि पारयित्वा, स्थानात् ततो जगदनुग्रहणैकतानः। . चक्रेण चक्रभृदिवाऽग्रचरेण धर्मचक्रेण भान् वसुमती विजहार नाथः ॥ ९३७॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि अजितखामिदीक्षाकेवलज्ञानवर्णनो नाम
तृतीयः सर्गः॥
*
*
R IAS
*06*6*
१शोभमानः।
*ACHO
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org