SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते ॥२३९॥ द्वितीयं पर्व तृतीयः सर्गः अजितसगरयोश्वरितम् । 06446* जिनादिष्टो न चेद् धर्मः, संसाराम्भोधितारणः । आप्ता यदि न चार्हन्तः, सर्वज्ञास्तीर्थकारिणः ॥९१६॥ ज्ञान-दर्शन-चारित्राण्यध्वा यदि न निवृतेः । सम्यक्त्वं भुवि चेन्नास्ति, तन्मे सूनुः प्रदह्यताम् ॥९१७॥ अथाऽस्ति सर्वमप्येतज्वलनः प्रज्वलन्नपि । जलवच्छीतलस्तर्हि, मत्पुत्रस्य भवत्वसौ ॥ ९१८ ॥ इत्युदित्वा स रोषेण, ज्वलनोऽन्य इव ज्वलन् । ज्वलने तत्र चिक्षेप, पुत्रं रामसिको द्विजः॥९१९॥ अनार्येणाऽमुना बालो, दग्धो दग्धो हहा! स्वकः । एवमाक्रोशिनी पर्ष, तमाचुक्रोश सा तदा ॥९२०॥ तत्रस्था देवता चैका, सम्यग्दर्शनशालिनी । सद्यश्चिक्षेप तं बालं, मध्येपमं द्विरेफवत् ॥ ९२१॥ ज्वालाजालकरालस्य, ज्वलतो ज्वलनस्य च । दाहशक्तिं जहाराऽऽशु, चित्रस्थमिव तं व्यधात् ॥ ९२२ ॥ पुरा विराद्धश्रामण्या, मृत्वा व्यन्तर्यभूद्धि सा । बोधिलाभं तया पृष्टो, व्याजहारेति केवली ॥ ९२३ ॥ भवत्याः सुलभा बोधिर्भवितव्यं त्वयाऽनघे!। सम्यक्त्वभावनोद्योगनिष्ठया सुष्ठ तत्कृते ॥ ९२४ ॥ तद्वचो विभ्रती नित्यं, हृदये हारयष्टिवत् । सम्यक्त्वमाहात्म्यकृते, सा जुगोप तमर्भकम् ॥ ९२५॥ प्रभावं तं तु सम्प्रेक्ष्य, विस्मयस्सेरचक्षुषः । जज्ञिरे ते द्विजन्मान, आजन्मादृष्टपूर्विणः ॥९२६॥ __ गत्वा वेश्मन्याचचक्षे, ब्राह्मण्यै ब्राह्मणः स तम् । जातप्रमोदः सम्यक्त्वानुभावानुभवं तदा ॥ ९२७ ॥ विपुलागणिनीगाढसंसर्गेण विवेकिनी । ब्राह्मणीत्यब्रवीद् धिग्धिक्, किमिदं विदधे त्वया ॥ ९२८॥ सम्यक्त्वभाजः कस्याश्चिद्, देवताया हि सन्निधेः । वक्रमप्यूजुतां प्राप्तमिदं ते कोपचापलम् ॥ ९२९ ॥ तदा हि देवता कापि, सम्यक्त्वैकप्रभाविका । सन्निधौ नाऽभविष्यच्चेत् तदधक्ष्यत ते सुतः ॥९३०॥ . साहसिकः । २ संयमविराधिनी। सुलक्षणाशुद्धभटयोः कथानकम् **USSOS ॥२३९॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy