________________
सम्यक्त्वस्य लक्षणादि
मिथ्यादृष्टिभिराम्नातो, हिंसाद्यैः कलुषीकृतः । स धर्म इति वित्तोऽपि, भवभ्रमणकारणम् ॥ ९०१॥ सरागोपि हि देवश्चेद्, गुरुरब्रह्मचार्यपि । कृपाहीनोऽपि धर्मः स्यात् , कष्टं नष्टं हहा ! जगत् ॥९०२॥ शम-संवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्यलक्षणैः । लक्षणेः पञ्चभिः सम्यक्, सम्यक्त्वमुपलक्ष्यते ॥ ९०३॥ स्थैर्य प्रभावना भक्तिः, कौशलं जिनशासने । तीर्थसेवा च पञ्चाऽस्य, भूषणानि प्रचक्षते ॥ ९०४॥ शङ्का कासा विचिकित्सा, मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्च पश्चापि, सम्यक्त्वं दृषयन्त्यलम् ॥९०५॥ ___ व्याजहार ब्राह्मणोऽपि, दयिते ! भाग्यवत्यसि । उपलब्धवती सम्यक्, सम्यक्त्वं यन्निधानवत् ॥९०६॥ शद्धभट्टोऽपि तत्कालं, सम्यक्त्वं प्रत्यपद्यत । धर्म धर्मोपदेष्टारः, साक्षिमात्रं शुभात्मनाम् ॥ ९०७॥ तौ सम्यक्त्वोपदेशेन, श्रावस्यभवतामुभौ । खीस्यातां सिद्धरसात् , सीसक-त्रपुणी अपि ॥ ९०८॥ तत्र ह्यग्रहारे साधुसंसर्गाभावतस्तदा । लोकोऽश्रावकधर्मोऽभून्मिथ्यादृष्टिः क्रमेण च ॥९०९॥ कुलक्रमागतं धर्ममिमौ सन्त्यज्य दुर्धियो । श्रावक्यभूतामित्यासीदपवादो जने तयोः ॥ ९१०॥ अपवादमवज्ञाय, श्राद्धत्वे तस्थुषोस्तयोः । जज्ञे कालक्रमात् पुत्रो, गार्हमेध्यतरोः फलम् ॥ ९११॥ शिशिरे ब्राह्मणोऽन्येद्युः, प्रातरादाय तं सुतम् । विप्रपर्षत्परिवृतां, धर्मार्थाग्निष्टिकां ययौ ॥ ९१२॥ श्रावकोऽसीति परतो, गच्छ गच्छेति सक्रुधः । प्रचण्डाश्चण्डालमिव, तं समाचुक्रुशुर्द्विजाः ॥ ९१३ ॥ तां धर्माग्निष्टिका ते च, वेष्टयित्वा समन्ततः। तस्थुर्द्विजातयो जातिधर्मस्तेषां हि मत्सरः ॥ ९१४ ॥ ततो विलक्षः सङ्घद्धो, विलक्षैर्वचनैः स तैः । समक्षं पर्षदस्तस्याश्चके सत्यापनामिति ॥ ९१५॥
ज्ञातोऽपि । २ श्रावको जातौ। ३ प्रतिज्ञाम् ।
Jain Education in
For Private & Personal use only
lmwww.jainelibrary.org.