SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ह द्वितीयं पर्व त्रिषष्टिशलाकापुरुषचरिते सरॐ तृतीयः सर्गः ॥२३८॥ अजितसगरयो. श्ररितम् । मम त्वद्विरहे तस्मिन्, पतितायाः समाययौ । गणिनी विपुला नाम, विपुलैकदयानिधिः ॥ ८८६ ॥ तद्दर्शनेन मे दुःखं, भवद्विरह ययौ । मया प्राप्तं च सम्यक्त्वं, फलं मानुषजन्मनः॥८८७॥ शुद्धभट्टोऽप्यभाषिष्ट, सम्यक्त्वं किं नु भट्टिनि! । जन्मनो मानुषस्याऽस्य, फलभूतं यदुच्यते ॥८८८॥ सुलक्षणाऽप्युवाचैवमार्यपुत्र ! निशम्यताम् । कथनीयं तदिष्टानामभीष्टः प्राणतोऽप्यसि ॥८८९ ॥ या देवे देवताबुद्धिर्गुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते ।। ८९० ॥ अदेवे देवबुद्धिर्या, गुरुधीरगुरौ च या । अधर्म धर्मबुद्धिश्च, मिथ्यात्वं तद्विपर्ययात् ॥ ८९१ ॥ सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च, देवोऽहन् परमेश्वरः ॥ ८९२ ॥ ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं, शासनं चेतनास्ति चेत ॥ ८९३ ॥ ये स्त्री-शस्त्रा-ऽक्षसूत्रादिरागाद्यङ्ककलङ्किताः। निग्रहा-ऽनुग्रहपरास्ते देवाः स्युन मुक्तये ॥ ८९४ ॥ नाट्या-ऽट्टहास-सङ्गीताद्युपप्लवविसंस्थुलाः । लम्भयेयुः पदं शान्तं, प्रपन्नान् प्राणिनः कथम् ॥ ८९५॥ महाव्रतधरा धीरा, भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः॥ ८९६ ॥ सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥ ८९७॥ परिग्रहारम्भमनास्तारयेयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरीकतुमीश्वरः ॥ ८९८॥ दुर्गतिप्रपतत्प्राणिधारणाद् धर्म उच्यते । संयमादिर्दशविधः, सर्वज्ञोक्तो विमुक्तये ॥ ८९९ ॥ अपौरुषेयं वचनमसम्भवि भवेद् यदि । न प्रमाणं भवेद् वाचां, ह्याप्ताधीना प्रमाणता ॥९००॥ १ज्ञानम् । सम्यक्त्वमिथ्याव योदेवगुरु DOSIESGOSMOSOGAUSA धर्मणां च स्वरूपम् ॥२३८॥ Jain Education For Prate & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy