SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ भगवन्तं नमस्कृत्य, सगरश्चक्रवर्त्यपि । पुरं जगाम साकेतं, श्रीसङ्केतनिकेतनम् ॥ ८४१॥ अजितजिन__ ततश्च तीर्थे तत्रैवोत्पन्नो यक्षश्चतुर्मुखः । श्यामवर्णो गजरथो,महायक्षोऽभिधानतः ॥ ८४२ ॥ शासना. धिष्ठायकवरदेन मुद्गरिणा, साक्षसूत्रेण पाशिना । चतुर्भिदक्षिणेहस्तैर्वामैस्तावद्भिरेव च ॥ ८४३ ॥ देव-देव्यो बीजपूरधरेणाऽभीदायिनाऽङ्कशधारिणा । सशक्तिना शोभितोऽभूत, खामिनः पारिपार्श्विकः ॥ ८४४॥ देवताजितबला च, तदोत्पन्ना सुवर्णरुक । भान्ती दक्षिणबाहुभ्यां, वरदेनाऽथ पाशिना ॥ ८४५॥ बीजपूरा-ऽङ्कशभृद्भयां, वामदोभ्यां च शोभिता । लोहासनस्था पार्श्वेऽस्थाद्, भर्तुः शासनदेवता ॥८४६॥ चतुस्त्रिंशदतिशयशोभितो भगवानपि । व्यहार्षीत् सिंहसेनादिपरिवारवृतो महीम् ॥ ८४७॥ बोधयन् भव्यभविनः, प्रतिग्राम-पुरा-ऽऽकरम् । कृपारत्नाकरः प्राप, कौशाम्बीं प्रभुरन्यदा ॥ ८४८॥ तस्याः पूर्वोत्तरदिशि, क्षेत्रे योजनमात्रके । प्रभोः समवसरणं, पूर्ववद् विदधे सुरैः ॥ ८४९ ॥ 18 द्विजन्मना सह तत्राऽशोकतले सिंहासनासीनो जगत्पतिः । ससुरा-ऽसुर-मायां, देशनां पर्षदि व्यधात् ॥ ८५० ॥ भगवतः संकेतवार्ता एकं द्विजन्ममिथुनमथैत्य त्रिजगद्गुरुम् । प्रदक्षिणीकृत्य नत्वा, यथास्थानमुपाविशत् ॥ ८५१ ॥ कथान्तरे जगन्नाथं, द्विजन्ममिथुनाद् द्विजः। पप्रच्छ साञ्जलिरिद, कथं नु भगवन्निति ॥८५२॥ शशंस प्रभुरप्येवं, सम्यक्त्वमहिमा ह्ययम् । सर्वानर्थनिषेधा-ऽर्थसिद्ध्योरेकं निबन्धनम् ॥ ८५३॥ तेन शाम्यन्ति वैराणि, वृष्ट्येव दववह्वयः । नश्यन्ति व्याधयोऽशेषाः, सर्पा इव गरुत्मता ॥ ८५४ ॥ दुष्कर्माणि विलीयन्ते, हिमानीवाहिमांशुना । सिध्यत्यभीप्सितं चिन्तामणिनेव क्षणादपि ॥ ८५५॥ १ गजवाहनः । २ फलविशेषः । ३ अभयमुद्राङ्कितेन । ४ वार्ताप्रस्तावे । ५ महद् हिमम् । ६ सूर्येण । । Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy