________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीय पर्व तृतीयः सर्गः अजितसगरयोश्चरितम् ।
॥२३६॥
उद्दामदुन्दुभिधानधनिताशेषदिअखः । उलूलुमुखरैश्वाऽनुगम्यमानो वधूजनैः ॥ ८२६ ॥ विष्वक परिवृतः पौरैः, पद्मकोश इवालिभिः । बलिः समवसरणं, पूर्वद्वाराऽधनाविशत् ॥ ८२७॥ ततः प्रदक्षिणीकृत्य, जगत्रयपतिं बलिः । तैः पुरश्चिक्षिपे दिव्यपुष्पवृष्टिविडम्बकः ॥ ८२८ ॥ नभस्तः पततस्तस्याऽगृह्णन्नध दिवौकसः। सगरो भृगतस्याऽधं, तच्छेपमपरे जनाः ॥ ८२९ ॥ बलेस्तस्य प्रभावेण, नश्यन्ति प्राग्भवा अपि । नोत्पद्यन्ते नूतनाश्च, षण्मासान यावदामयाः ॥ ८३०॥ सिंहासनात् समुत्थायाऽथोत्तरद्वारवर्त्मना । निर्वाणवर्त्मनोऽग्रेगूर्निर्जगाम जगत्पतिः ॥ ८३१॥ ऐशानदिश्यूद्धमध्यवप्रयोरन्तरस्थिते । देवच्छन्दे देवदेवो, विशश्राम ततः किल ॥ ८३२ ॥
सगरेणोपनीतेऽथ, तत्र सिंहासने स्थितः । अकरोद् देशनां सिंहसेनो गणधराग्रणीः॥ ८३३ ॥ भगवत्स्थानमाहात्म्यात्, स तत्र गणभृद्वरः । सङ्ख्यातीतान् भवानाख्यद्, यच्च पप्रच्छ कश्चन ॥ ८३४ ॥ खामिपर्षदि तस्यां तं, सन्देहापोहकं तथा । छद्मस्थ इति नाऽज्ञासीद्, विना केवलिनं जनः ॥ ८३५ ॥ गुरोः खेदविनोदच, प्रत्ययश्च द्वयोरपि । गुरु-शिष्यक्रमश्चेति, गणभृद्देशनागुणाः ॥ ८३६ ।। पौरुष्यां च द्वितीयायां, सम्पूर्णायां गणाग्रणीः । व्यरंसीद् देशनातः स, पथिको गमनादिव ॥ ८३७॥ देशनाविरते तस्मिन्, प्रणम्य परमेश्वरम् । चेलर्निजनिजस्थानं, प्रति सर्वे दिवौकसः॥ ८३८॥ गत्वा नन्दीश्वरद्वीपं, पर्वतेष्वञ्जनादिषु । शाश्वताहत्प्रतिमानां, चक्रुस्तेऽष्टाह्निकोत्सवम् ॥ ८३९ ॥ भूयो भूयोऽपि भूयान्नो, यात्रेदृगिति भाषिणः । ययुर्निजनिजं धाम, वर्धामानो यथागतम् ॥ ८४०॥ १ गीतादिध्वनिः । २ रोगाः । ३ अग्रगामी । ४ सन्देहनाशकम् । ५ देवाः ।
गणभृद्देशना
॥२३६॥
JainEducation in
For Private & Personal use only
www.jainelibrary.org