________________
त्रिषष्टि. ४१
Jain Education Intern
एवं विश्वजनीनेन, तीर्थनाथेन निर्ममे । त्रिजगत्कुमुदानन्दकौमुदी धर्मदेशना ॥ ८११ ॥ श्रुत्वा च देशनां भर्तुः प्रतिबुद्धाः सहस्रशः । नरा नार्यश्च जगृहुदीक्षां मोक्षैकमातरम् ।। ८१२ ।। तदानीं च सुमित्रोsपि, पिता सगरचक्रिणः । पुरा भावयतिर्दीक्षामाददे खामिनोऽन्तिके ।। ८१३ ॥ ततश्च पञ्चनवतेर्गणभृन्नामकर्मणाम् । संयतानां सिंहसेनप्रभृतीनां सुमेधसाम् ॥ ८१४ ॥ - उत्पत्ति-विगम- ध्रौव्यरूपामूचे पदत्रयीम् । सर्वागमव्याकरणप्रत्याहारोपमां प्रभुः ।। ८१५ ।।
त्रिपद्यनुसारेण द्वादशाङ्गीं सपूर्विकाम् । रेखानुसारेणाऽऽलेख्यमिव तेऽरचयन्नथ ॥ ८१६ ॥ चूर्णपूर्णमथ स्थालमादायोत्थाय वासवः । स्वामिनः पादपद्मान्ते, तस्थौ सुरगणावृतः ।। ८१७ ।। अथोत्थाय गणभृतां चूर्ण मूर्धसु निक्षिपन् । क्रमेण सूत्रेणाऽर्थेन, तथा तदुभयेन च ॥ ८१८ ॥ द्रव्यैर्गुणैः पर्ययैश्व, नयैरपि जगत्पतिः । ददावनुयोगानुज्ञां गणानुज्ञामपि स्वयम् ॥ ८१९ ॥ उपरिष्टाद् गणभृतां वासक्षेपं दिवौकसः । नरा नार्यश्च विदधुर्दुन्दुभिध्यानपूर्वकम् ॥ ८२० ॥ पीयूषनिः स्यन्दमिव, रचिताञ्जलिसम्पुटाः । खामिवाचं प्रतीच्छन्तस्तस्थुर्गणधरा अपि ॥। ८२१ ॥ भेजे सिंहासनं पूर्वाभिमुखः पूर्ववत् पुनः । अनुशिष्टिमयीं तेभ्यो, देशनां विदधे विभुः ।। ८२२ ॥ अत्रान्तरे च प्रथमा, पर्यपूर्यत पौरुषी । पारयामास भगवानपि तां धर्मदेशनाम् ॥ ८२३ ॥
तदा विशालस्थालस्थचतुःप्रस्थप्रमाणकः । आपूर्णः शालिभिः शुद्धैः, पद्मसौरभशालिभिः ।। ८२४ । उपसंवर्गितामोदो, दिविषद्गन्धमुष्टिभिः । कारितः सगरराजेनोत्क्षिप्तो वरपूरुषैः ।। ८२५ ।।
विश्वहितकारिणा । २ सर्वागमानां स्पष्टीकरणे प्रत्याहारसदृशीभू । ३ सूत्राथाभ्याम् । ४ शिक्षामयीम् । ५ संमिश्रित आमोदो यस्मिन्सः । For Private & Personal Use Only
गणभृतां
स्थापना
www.jainelibrary.org.