________________
त्रिषष्टिशलाकापुरुषचरिते ॥२३५॥
इत्यधस्तात् तिर्यगूर्द्धमेदो लोकोऽस्य मध्यतः । वसनाड्यस्ति च चतुर्दशरजुप्रमाणिका ॥ ७९७ ॥ द्वितीय पर्व ऊर्द्धा-ऽधोभागयो रज्जुप्रमाणायाम-विस्तृतिः । अन्तस्त्रसाः स्थावराश्च, स्थावरा एव तदहिः ॥ ७९८ ॥ तृतीय विस्तारेऽधः सप्तरतुरेकरज्जुश्च मध्यतः । ब्रह्मलोके पश्चरज्जुः, पर्यन्ते चैकरज्जुकः ॥ ७९९ ॥
सर्ग: सुप्रतिष्ठाकृतिर्लोको, न केनापि कृतो धृतः। वयंसिद्धो निराधारो. व्योम्नि तिष्ठति किन्त्वसौ ? ॥८००॥ अजित
-
॥युग्मम् ॥ द्र सगरयोअमुं लोकं समस्तं वा, व्यस्तं वापि हि चिन्तयेत । धीमान शुभेतर्रध्यानप्रतिषेधनिबन्धनम् ॥ ८०१॥18वरितम् । धर्मध्याने भवेद् भावः, क्षायोपशमिकादिकः । लेश्याः क्रमविशुद्धाः स्युः, पीत-पद्म-सिताः पुनः ॥८०२॥ अस्मिन् नितान्तवैराग्यव्यतिषङ्गतरङ्गिते । जायते देहिनां सौख्यं, स्वसंवेद्यमतीन्द्रियम् ॥ ८०३ ।। CI उर्दुलोकः त्यक्तसङ्गास्तनुं त्यक्त्वा, धर्मध्यानेन योगिनः । प्रैवेयकादिस्वर्गेषु, भवन्ति त्रिदशोत्तमाः ॥ ८०४॥
वैमानिकाः महामहिमसौभाग्यं, शरच्चन्द्रनिभप्रभम् । प्राप्नुवन्ति वपुस्तत्र, स्रग्भूषा-ऽम्बरभूषितम् ॥ ८०५॥ विशिष्टवीर्यबोधाढ्यं, कामार्तिज्वरवर्जितम् । निरन्तरायं सेवन्ते, सुखं चाऽनुपम चिरम् ॥ ८०६॥ इच्छासम्पन्नसर्वार्थमनोहारिसुखामृतम् । निर्विघ्नमुपभुञ्जाना, गतं जन्म न जानते ॥ ८०७॥ दिव्यभोगावसाने च, च्युत्वा त्रिदिवतस्ततः । उत्तमेन शरीरेणाऽवतरन्ति महीतले ॥ ८०८॥ दिव्यवंशे समुत्पन्ना, नित्योत्सवमनोरमान् । भुञ्जते विविधान् भोगानखण्डितमनोरथाः॥८०९॥
॥२३५॥ ततो विवेकमाश्रित्य, विरज्याऽशेषेभोगतः। ध्यानेन ध्वस्तकर्माणः, प्रयान्ति पदमव्ययम् ॥ ८१०॥ १ सम्बन्धः। २ वैराग्यं प्राप्य ।
HASEASESAMSEX
Jain Education Interesa
For Private & Personal use only
www.jainelibrary.org