SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सौधर्मकल्पादारभ्य, सर्वार्थ यात्रदेषु च । स्थित्या दीप्त्या प्रभावेण, विशुद्ध्या लेश्यया सुखैः॥७८२॥ इन्द्रियाणां विषयेणाऽवधिज्ञानेन चाऽमराः। भवन्ति पूर्वपूर्वेभ्योऽभ्यधिका उत्तरोत्तराः ॥ ७८३ ।। परिग्रहा-अभिमानाभ्यां, वपुषा गमनेन च । हीनहीनतरा एते, भवन्ति तु यथाक्रमम् ॥७८४ ॥ जायते सर्वजघन्यस्थितीनां त्रिदिवौकसाम् । सप्तस्तोकान्त उच्छास, आहारस्तु चतुर्थतः ॥ ७८५ ॥ पल्योपमस्थितीनां तु, भवति त्रिदिवौकसाम् । दिवसस्यान्तरुच्छास, आहारोऽहःपृथक्त्वतः ॥ ७८६ ॥ यावन्तः सागरा यस्य, तावन्मासार्धकैः पुनः । उच्छासस्तस्य तावद्भिराहारोऽब्दसहस्रकैः ॥ ७८७ ॥ देवाः सवेदनाः प्रायो, यद्यसवेदनाः पुनः । अन्तर्मुहूर्त्तकालं स्युर्मुहर्तात परतो न हि ॥ ७८८ ॥ आ ऐशानात समुत्पत्तिर्देवीनां गतिराऽच्युतात् । उत्पद्यन्ते तापसास्तु, ज्योतिष्कत्रिदशावधि॥७८९ ॥ आ ब्रह्मलोकाचक-परिव्राजां तु सम्भवः । पञ्चेन्द्रियतिरश्चामा सहस्रारं पुनर्जनिः ।। ७९० ॥ श्राद्धानामच्युतं मिथ्यादृशां तु जिनलिङ्गिनाम् । सामाचारीपालकानामन्त्यग्रैवेयकावधि ॥७९१॥ ब्रह्मलोकादिसर्वार्थसिद्धान्तं पूर्णपूर्विणाम् । साधु-श्राद्धानां सौधर्म, सद्रतानां जघन्यतः॥ ७९२ ॥ आ ऐशानाच्च भवनवास्याद्यास्त्रिदिवौकसः। भवन्त्यङ्गप्रवीचारास्ते हि सङ्किष्टकर्मकाः ।। ७९३ ॥ तीव्रानुरागाः सुरते, लीयमाना मनुष्यवत । सर्वाङ्गीणस्पर्शसुखात्, प्रीतिमासादयन्ति तु ॥७९४॥ युग्मम्॥ शेषाः स्पर्श-रूप-शब्दप्रवीचारा द्वयोर्द्वयोः । मनःप्रवीचारभृतश्चतुर्पु चाऽऽनतादिषु ॥ ७९५ ॥ अमरेभ्यः प्रवीचारवयोऽनन्तसुखात्मकाः । अपरेष्वप्रवीचारा, देवा ग्रैवेयकादिषु ॥ ७९६ ॥ ३ पूर्णचतुर्दशपूर्विणाम् । *सवता सङ्घ १॥ Jan Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy