________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥२३४॥
Jain Education
घनोदधिप्रतिष्ठानौ, कल्पौ तु प्रथमाविह । वायुकृतप्रतिष्ठानास्त्रयः कल्पास्ततः परम् ॥ ७६८ ॥ घनोदधि-घनवातप्रतिष्ठानास्ततस्त्रयः । ततस्तदूर्द्धमाकाशप्रतिष्ठानाः सुरालयाः ॥ ७६९ ॥ इन्द्राः सामानिकास्त्रयस्त्रिंशाः पार्षद्य-रक्षकाः । लोकपाला अनीकानि, प्रकीर्णा आभियोगिकाः ॥ ७७० ॥ किल्विपिकाचेति तेषु, दशभेदा दिवौकसः । इन्द्राः सामानिकादीनामधिपाः सर्वनाकिनाम् ।। ७७१ ॥ सामानिकाश्चेन्द्रसमाः, परमिन्द्रत्ववर्जिताः । त्रायस्त्रिंशा मन्त्रि-पुरोहितप्राया हरेः पुनः ॥ ७७२ ॥ वयस्यप्रायाः पार्षद्या, आत्मरक्षास्तु रक्षकाः । आरक्षकांर्थन्चरस्थानीया लोकपालकाः ॥ ७७३ ॥
प्रयाण्यनीकानि, प्रकीर्णा ग्राम्य-पौरवत् । दासप्राया आभियोग्याः, किल्विषाश्चान्त्यजोपमाः ॥ ७७४॥ ज्योतिष्क-व्यन्तरास्त्रायस्त्रिंश-लोकपवर्जिताः । विमानलक्षाः सौधर्मे, द्वात्रिंशत् त्रिदिवौकसाम् ॥ ७७५ || ऐशान - सनत्कुमार- माहेन्द्र ब्रह्मणामपि । अष्टाविंशतिर्द्वादशाऽष्टौ चत्वारः क्रमेण तु ।। ७७६ ॥ लक्षाधं लान्तके शुक्रे, चत्वारिंशत् सहस्रकाः । षद् सहस्राः सहस्रारे, युगले तु चतुःशती ॥ ७७७ ॥ त्रिशत्यारणा - Sच्युतयोरा ग्रैवेयकत्रिके । शतमेकादशाग्रं तु मध्ये सप्तोत्तरं पुनः ॥ ७७८ ॥ विमानानां शतं त्वेकमन्त्यग्रैवेयकत्रिके । अनुत्तरविमानानि, पञ्चैव हि भवन्ति तु ॥ ७७९ ॥ एवं देवविमानानां लक्षाशीतिश्चतुर्युता । सप्तनवतिः सहस्रास्त्रयोविंशतिरेव च ॥ ७८० ॥ अनुत्तरविमानेषु चतुर्षु विजयादिषु । देवा द्विचरमा एकचरमाः पञ्चमे पुनः ॥ ७८१ ॥
* °कार्थचरपुंस्था° सङ्घ ३ ॥ १ आरक्षकार्यं चारपुरुषसदृशाः । २ सेनासशानि । ३ लोकपालाः । ४ मनुष्य भवद्वयेन सिद्धिगामिनः ।
For Private & Personal Use Only
द्वितीयं पर्व तृतीयः
सर्गः
अजित
सगरयो -
वरितम् ।
ऊर्द्ध्वलोकः वैमानिकाः
॥२३४॥
www.jainelibrary.org.