SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ CASE ARSANSKRONG-% आदौ सुदर्शनं नाम, सुप्रबुद्धं मनोरमम् । सर्वभद्रं सुविशालं, सुमनश्च ततः परम् ॥ ७५३ ॥ सौमनसं प्रीतिकरमादित्यमथ तत्परम् । अनुत्तराभिधानानि, पञ्च सन्ति ततः परम् ॥ ७५४ ॥ विजयं वैजयन्तं च, जयन्तं चाऽपराजितम् । प्राक्क्रमेण विमानानि, मध्ये सर्वार्थसिंद्धकम् ॥७५५॥ ततो द्वादशयोजन्या, ऊर्द्ध सिद्धिशिलास्ति तु । पञ्चचत्वारिंशल्लक्षयोजनायाम-विस्तृता ॥ ७५६ ॥ ततोऽप्युपरि गव्यतत्रितयात् समनन्तरम् । तुर्यगव्यतषष्टांशे, सिद्धा लोकाग्रतावधि ॥ ७५७॥ आ सौधर्मेशानकल्पं, सार्धा रज्जुः समावनेः। सनत्कुमार-माहेन्द्रौ, सार्ध रज्जुद्वयं पुनः॥७५८॥ रजवश्चाऽऽ सहस्रारं, पञ्च षद् चाऽच्युतावधि । लोकान्तमवधीकृत्य, जायन्ते सप्त रजवः ॥ ७५९ ॥ सौधर्मेशानकल्पौ तु, चन्द्रमण्डलवर्तुलौ । दक्षिणार्धे तत्र शक्र, ऐशानश्चोत्तरार्धके ॥ ७६०॥ सनत्कुमार-माहेन्द्रावप्येवं तत्समाकृती । सनत्कुमारोऽपाच्याथै, माहेन्द्रस्तूत्तराधके ॥ ७६१॥ लोकपुंस्कूर्परसमप्रदेशेऽतः परं पुनः । लोकमध्यभागे ब्रह्मलोको ब्रह्मा च तत्प्रभुः ॥ ७६२ ॥ प्रान्ते सारखता-ऽऽदित्या-ऽग्यरुण-गर्दतोयकाःतुषिता-व्यायाध-मरुद्रिष्टा लोकान्तिकामराः।। तदुर्द्ध लान्तकः कल्पस्तन्नामा तत्र वासवः । तस्योपरि महाशुक्र, इन्द्रस्तन्नामकोऽत्र च ॥७६४॥ तदूर्द्ध च सहस्रारस्तन्नामा तत्र वासवः। सौधर्मेशा संस्थानावानत-प्राणतो ततः॥ ७६५ ॥ तयोः प्राणतकल्पस्थः, प्राणताख्यः पुरन्दरः। तद्र च तदाकारी, द्वौ कल्पावारणा-ऽच्युतौ॥७६६॥ तयोरच्युतवास्तव्य, एक इन्द्रोऽच्युताभिधः । ग्रैवेयकाऽनुत्तरेषु, त्वहमिन्द्रा दिवौकसः ॥ ७६७॥15 * °सिद्धिकम् सङ्घ २ ॥ धर्मेशा सङ्घ २ ॥ धर्मेशा सङ्घ २ ॥ ईशा सङ्घ २ ॥ 1 सौधर्मेशानकल्पसदृशौ । JlainEducation internet For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy