________________
Jain Education Inte
ततः परं योजनानां पञ्चशत्यवगाहिनः । तावदायाम - विष्कम्भा, अन्तरद्वीपका इमे ॥ ६९२ ॥ तत्राऽऽदर्शमुखो मेषमुखो हयमुखस्तथा । गजमुखश्च चत्वार, ऐशान्यादिषु पूर्ववत् ॥ ६९३ ॥ ततः षड्योजनशैतावगाहाऽऽयाम-विस्तृताः । अश्वमुखो हस्तिमुखः, सिंहव्याघ्रमुखावपि ॥ ६९४॥ योजनानां सप्तशतावगाहाऽऽयाम-विस्तृताः । अश्व-सिंह- हस्तिकर्णाः कर्णप्रावरणः क्रमात् ।।६९५ ।। ततोऽष्टयोजनशतीं, लवणोदेऽवगाहिनः । तावदायामसहितास्तावद्विष्कम्भशालिनः ॥ ६९६ ॥
पाउमुख विद्युज्जहो मेषंमुखोऽपि च । विद्युद्दन्तश्च चत्वार, ऐशान्यादिविदिक्क्रमात् ।। ६९७ योजनानां नवशतीं, ततोऽपि लवणोदधेः । अवगाह्य स्थितास्तावद्विष्कम्भाऽऽयामशालिनः ॥ ६९८ ॥ नाम्ना गूढदन्तो घनदन्तकः श्रेष्ठदन्तकः । शुद्धदन्तश्च चत्वारोऽन्तरद्वीपा विदिक्क्रमात् ।। ६९९ ॥ अष्टाविंशतिरेवं च, शिखरिण्यपि पर्वते । एकत्र मेलिताः सर्वे, षट्पञ्चाशद् भवन्ति ते ।। ७०० ॥
मानुषोत्तरपरतः, पुष्करार्धं द्वितीयकम् । पुष्करस्य परिक्षेपी, द्विगुणः पुष्करोदकः ॥ ७०१ ॥ ततोऽपि वारुणिवरौ, नाम्ना द्वीप - पयोनिधी । ततः परं क्षीरवरी, नामतो द्वीप - सागरौ ।। ७०२ ॥ ततो घृतवरौ द्वीपा - बुधी इक्षुवरौ ततः । ततो नन्दीश्वरो नाम्नाऽष्टमो द्वीपो घुसन्निभः ॥७०३ ॥ एतद्वलयविष्कम्भे, लक्षाशीतिश्चतुर्युता । योजनानां त्रिषष्टिश्र, कोट्यः कोटिशतं तथा ॥ ७०४ ॥ असौ विविधविन्यासोद्यानवान् देवभोगभूः । जिनेन्द्रपूजासंसक्तसुरसम्पातसुन्दरः ॥ ७०५ ।। अस्य मध्यप्रदेशे तु, क्रमात् पूर्वादिदिक्षु च । अञ्जनवर्णाश्चत्वारस्तिष्ठन्त्यञ्जनपर्वताः ॥ ७०६ ॥ * 'शत्यव° सङ्घ १ ॥ + मेघमु° ढंसं० ॥ १ पुष्करार्धाद् द्विगुणः । २ स्वर्गसदृशः ।
For Private & Personal Use Only
नन्दीश्वरः
www.jainelibrary.org.