________________
त्रिषष्टिशलाकापुरुषचरिते
॥२३३॥
GROSSOBLUSEST
सर्वर्द्धयस्तासु देवाः, कुर्वते सपरिच्छदाः । चैत्येष्वष्टाह्निकाः पुण्यतिथिषु श्रीमदर्हताम् ॥ ७३८॥ द्वितीयं पर्व __ नन्दीश्वरपरिक्षेपी, ततो नन्दीश्वरोऽर्णवः। ततः परोऽरुणद्वीपोऽस्त्यरुणोदश्च सागरः॥७३९ ॥ तृतीयः ततोऽरुणवरो द्वीपस्तन्नामा च पयोनिधिः । ततः परोऽरुणाभासोऽरुणाभासश्च सागरः।। ७४०॥18| सर्गः ततश्च कुण्डलद्वीपः, कुण्डलोदश्च वारिधिः । ततश्च रुचकद्वीपो, रुचकश्च पयोनिधिः ॥ ७४१॥ अजितएवं प्रशस्तनामानो, द्विगुणद्विगुणाः क्रमात् । द्वीपाः समुद्रास्तेष्वन्त्यः, स्वयम्भूरमणोऽम्बुधिः ॥ ७४२॥ सगरयो
द्वीपेष्वर्धतृतीयेषु, देवोत्तरकुरून् विना। भरतैरावत-महाविदेहाः कर्मभृमयः ॥ ७४३ ॥ चरितम् । कालोदः पुष्करोदश्च, स्वयम्भूरमणस्तथा । पानीयरसा लवणरसस्तु लवणोदधिः॥ ७४४ ॥
कर्मभूमयः वारुणोदश्चित्रपानहृयः क्षीरोदधिः पुनः । खण्डमिश्र-घृतचतुर्भागगोक्षीरसन्निभः ॥ ७४५ ॥ घृतोदः सद्यःकथितगोघृताभोऽपरे पुनः । चतुर्जातकवत्पर्वान्तच्छिन्नेक्षुरसोपमाः॥ ७४६ ॥ लवणोदोऽथ कालोदः, स्वयम्भूरमणोऽपि च । मत्स्य-कूर्मादिसङ्कीर्णाः, सागरा नाऽपरे पुनः ॥७४७॥
चत्वारस्तत्र तीर्थेशाश्चक्रिणो विष्णवो बलाः । सदा भवन्ति द्वीपेऽस्मिन्, जम्बूद्वीपे जघन्यतः ॥७४८॥ उत्कर्षेण चतुस्त्रिंशजिनास्त्रिंशच पार्थिवाः । भवन्ति द्विगुणाश्चैते, धातकी-पुष्करार्धयोः॥ ७४९ ॥ तिर्यग्लोकादितश्चोर्द्धमूर्द्धलोको महर्द्धिकः । नवयोजनशत्यूनसप्तरजुप्रमाणकः ॥ ७५०॥
ऊ लोकः तत्र सौधर्म ईशानः, सनत्कुमार इत्यपि । माहेन्द्रो ब्रह्मलोकश्च, लान्तकः शुक्रसंज्ञकः॥७५१॥
॥२३३॥ सहस्रारा-ऽऽनत-प्राणता-ऽऽरणा अच्युतोऽपि च । कल्पा इति द्वादशाऽमी, नवग्रैवेयका इमे।।७५२॥ १ राजधानीषु । २ देवलोकाः ।
Jain Education
i
n
For Private & Personal use only
www.jainelibrary.org