SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ नन्दीश्वरः भद्रा विशाला कुमुदा, पुण्डरीकिणिका तथा । विजया वैजयन्ता च, जयन्ता चाऽपराजिता प्रत्येकमासां योजनपञ्चशत्याः परत्र च । योजनानां पञ्चशती, यावद् विस्तारभाञ्जि तु ॥ ७२४ ॥ लक्षयोजनदीर्घाणि, महोद्यानानि तानि तु । अशोक-सप्तच्छदक-चम्पक-चूतसंज्ञया ॥ ७२५॥ मध्ये पुष्करिणीनां च, स्फाटिकाः पल्यमूर्तयः । ललाम-वेद्युद्यानादिचिह्ना दधिमुखाद्रयः॥ ७२६॥ चतुःषष्टिसहस्रोच्चाः, सहस्रं चाऽवगाहिनः । *विस्तृता दशसहस्री, योजनानामुपर्यधः ॥ ७२७ ॥ अन्तरे पुष्करिणीनां, द्वौ द्वौ रतिकराचलौ । ततो भवन्ति द्वात्रिंशदेते रतिकराचलाः ॥ ७२८॥ शैलेषु दधिमुखेषु, तथा रतिकराद्रिषु । शाश्वतान्यहच्चैत्यानि, सन्त्यञ्जनगिरिष्विव ।। ७२९ ॥ चत्वारो द्वीपविदिक्षु, तथा रतिकराचलाः । दशयोजनसहस्रायाम-विष्कम्भशालिनः॥ ७३०॥ योजनानां सहस्रं तु, यावदुच्छ्रयशोभिताः । सर्वरत्नमया दिव्या, झल्लाकारधारिणः ॥ ७३१ ॥ तत्र द्वयो रतिकराचलयोर्दक्षिणस्थयोः । शक्रस्पैशानस्य पुनरुत्तरस्थितयोः पृथक ॥ ७३२ ॥ अष्टानां महादेवीनां, राजधान्योऽष्टदिक्षु ताः । लक्षाबाधा लक्षमाना, जिनायतनभूषिताः॥ ७३३॥ सुजाता सौमनसा चार्चिमाली च प्रभाकरा । पद्मा शिवा शुच्यञ्जने, भूता भूतावतंसिका गोस्तूपा-सुदर्शने अप्यमला-ऽप्सरसौ तथा। रोहिणी नवमी चाऽथ, रत्ना रत्नोच्चयापि च।।७३५॥ सर्वरत्ना रत्नसश्चया वसुर्वसुमित्रिका । वसुभागाऽपि च वसुन्धरानन्दोत्तरे अपि ॥ ७३६॥ नन्दोत्तरकुरुर्देवकुरुः कृष्णा ततोऽपि च । कृष्णराजीरामारामरक्षिताः प्राक्क्रमादमः ॥ ७३७॥ पल्याकृतयः। योजनानि दशाधस्तादुपरिष्टाञ्च विस्तृताः सङ्घ३विना ॥ २रतिकराल्लायोजनदूरे। चूता चूता सङ्घसङ्घ३॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy