________________
त्रिषष्टिशलाकापुरुषचरिते
॥२३॥
भाषार्या नाम ते शिष्टभाषानियतवर्णकम् । पञ्चानामपि चाऽऽर्याणां, व्यवहारं वदन्ति ये ॥६७८॥ द्वितीयं पर्व म्लेच्छास्तु शाका यवनाः, शबराबर्बरा अपि । काया मुरुण्डा उड्राश्च, गोड्राः पक्कणका अपि ॥ तृतीयः अरपाकाश्च हणाश्च, रोमकाः पारसा अपि । खसाश्च खासिका डौम्बिलिकाश्च लकुसा अपि ॥ सर्ग: भिल्ला अन्ध्रा वुक्कसाश्च, पुलिन्दाःक्रौञ्चका अपि । भ्रमररुताः कुञ्चाश्च, चीन-चक्षुक-मालवाः॥ अजितद्रविडाश्च कुलक्षा, किराताः कैकया अपि । हयमुखा गजमुखास्तुरगा-जमुखा अपि॥६८२॥18|| सगरयोहयकर्णा गजकर्णा, अनार्या अपरेऽपि हि । मर्त्या येषु न जानन्ति, धर्म इत्यक्षराण्यपि ॥ ६८३॥ चरितम् ।
॥पञ्चभिः कुलकम् ॥ धर्मा-ऽधर्मोज्झिता म्लेच्छा, अन्तरद्वीपजा अपि । भवन्ति चाऽन्तरद्वीपाः, षट्पञ्चाशदमी यथा ॥६८४॥ अन्तरद्वीपाः तेऽर्धे क्षुद्रहिमवतः, पूर्वा-ऽपरविभागयोः । पूर्वोत्तराप्रभृतिषु, विदिक्षु चतसृष्वपि ॥ ६८५ ॥ पूर्वोदीच्यां दिशि तत्राऽवगाढो लवणोदधिः । त्रियोजनशतीं तावानायामे विस्तृतावपि ॥ ६८६ ॥ प्रथमोऽस्त्यन्तरद्वीप, एकोरुरिति नामतः । पुरुषा द्वीपनाम्नेह, सर्वाङ्गोपाङ्गसुन्दराः॥ ६८७ ॥ न खल्वेकोरुका एव, द्वीपेष्वित्यपरेष्वपि । ज्ञातव्या वक्ष्यमाणेषु, द्वीपनाम्नैव पूरुषाः ॥ ६८८॥
॥२३॥ आग्नेय्यादिषु तन्मात्रावगाहा-ऽऽयाम-विस्तृताः। द्वीपा आभाषिको लाङ्गलिको वैषाणिकः क्रमात ॥ ततः परं योजनानामवगाह्य चतुःशतीम् । तावदायामसहितास्तावद्विष्कम्भशोभिनः ॥ ६९० ॥ ऐशान्यादिविदिश्वन्तीपाश्च हयकर्णकः । गजकर्णश्च गोकर्णः, शष्कुलकर्णकः क्रमात ॥६९१॥ - * मुरण्डा सङ्घ २ ॥ लकुला सङ्घ ३ ॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org