SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥२३॥ द्वितीयं पर्व तृतीयः सर्गः अजितसगरयो. श्चरितम् । मानुषोत्तरः मेरोर्योजनषट्शत्या, हीनविष्कम्भकाः क्षितौ । तेषां च प्रथम काण्डं, महामेरोरेनूनकम् ॥ ६४८॥ द्वितीयं सप्तभिर्म्युनं, योजनानां सहस्रकैः । तृतीयमष्टभिर्मेस्वद् भद्रशाल-नन्दने ।। ६४९ ।। सहार्धपञ्चपञ्चाशसहस्रयोजनोपरि । पञ्चयोजनशत्या च, पृथु सौमनसं वनम् ॥ ६५०॥ अष्टाविंशतिसहरुया, योजनानामथोपरि । षडूनयोजनपञ्चशतविस्तारि पाण्डकम् ॥ ६५१॥ उपरिष्टादधस्ताच्च, विष्कम्भोऽथाऽवगाहनम् । महामेरुगिरेस्तुल्यं, तत्तुल्या चूलिकाऽपि च ॥ ६५२॥ तदेवं मानुषं क्षेत्रं, द्वीपावर्धतृतीयको । द्वावधी पञ्चत्रिंशच, वर्षाः पञ्च च मेरवः ॥ ६५३ ॥ त्रिंशद् वर्षधरा देवकुरवः पञ्च पञ्च च । उत्तराः कुरवः पथ्युत्तरं च विजयाः शतम् ।। ६५४ ॥ - ततः परं पर्वतोऽस्ति, नामतो मानुषोत्तरः। मर्त्यलोकपरिक्षेपी, पुरणाकारवर्तुलः॥ ६५५ ॥ निविष्टः पुष्करस्याऽर्धे सौवर्णः सैकविंशतिम् । योजनानां सप्तदशशतीं यावत् समुच्छ्रितः ॥ ६५६ ॥ चतुःशतीं योजनानां, त्रिंशां क्रोशं च भूमिगः। योजनानां सहस्रं द्वाविंशं विस्तीर्णवानधः ॥ ६५७ ॥ योजनानां सप्तशती, त्रयोविंशां च मध्यतः। उपरिष्टाचतुर्विशां, योजनानां चतुःशतीम् ॥ ६५८॥ नोत्पद्यन्ते न म्रियन्ते, मास्तत्परतः क्वचित । न म्रियन्ते चारणाद्या, अपि तत्परतो गताः ॥६५९॥ मानुषोत्तरनामा च, तेनाऽयं परतोऽस्य च । बादराग्नि-मेघ-विद्युन्नदी-कालादयो न हि ॥ ६६०॥ पञ्चविंशति वर्षेषु, चैष्वर्वाग् मानुषोत्तरात | मनुष्याः सान्तरद्वीपेपूत्पद्यन्ते हि जन्मतः ।। ६६१ ॥ संहार-विद्य-द्धियोगान्मेवादिशिखरेषु च । द्वीपेष्वर्धतृतीयेषु, समुद्रद्वितये च ते ॥ ६६२ ।। समानम् । * शत्सह° सङ्घ २ ।। ॥२३०॥ Jain Education in For Prvale & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy