SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ धातकी पुष्कराई तद्गता एकविंशसप्तदशशतयोजनिकोच्छ्याः । ते द्वाविंशयोजनानां, सहस्रं विस्तृतास्त्वधः ॥ ६३३ ॥ उपरिष्टाचतुर्विंशां, योजनानां चतुःशतीम् । तेषामुपरि सर्वेषां, प्रासादाः सन्ति शोभनाः ॥ ६३४॥ कर्कोटकः कार्दमकः, कैलाशश्चाऽरुणप्रभः। सर्वरत्नमयाश्चाणुवेलाधारीन्द्रपर्वताः ॥ ६३५॥ कर्कोटको विद्युजिह्वः, कैलाशोथाऽरुणप्रभः । वसन्ति देवतास्तेषु, सर्वदैव यथाक्रमम् ॥ ६३६ ॥ सहस्रेषु द्वादशसु, योजनानां विदिक्षु च । प्राच्यामिन्दुद्वीपी तावद्विस्तारा-ऽऽयामशोभितौ ॥६३७॥ विद्यते सवितृद्वीपावपरेण च तावति । तथाऽस्ति गौतमद्वीपस्तावति सुस्थिताश्रयः॥ ६३८॥ अन्तर्वाह्यलावणकचन्द्रा-ऽर्काणां तथाऽऽश्रयाः । प्रासादास्तेषु लवणरसस्तु लवणोदधिः॥ ६३९ ॥ लवणोदपरिक्षेपी, ततो द्विगुणविस्तृतिः । धातकीखण्ड इत्यस्ति, नाम्ना द्वीपो द्वितीयकः॥६४०॥ जम्बूद्वीपे च ये मेरु-वर्ष-वर्षधराद्रयः। धातक्यां द्विगुणास्ते तु, ख्यातास्तैरेव नामभिः ॥ ६४१॥ इष्वाकारपर्वताभ्यां, दीर्घाभ्यामुदग्याम्ययोः। विभक्ता जम्बूद्वीपस्थसङ्ख्याः पूर्वापरार्धयोः॥ ६४२॥ चक्राराभा निषधोचाः, कालोद-लवणस्पृशः । वर्षधराः सेष्वाकारा, वर्षास्त्वरान्तरस्थिताः ॥ ६४३॥ धातकीखण्डद्वीपस्य, परिक्षेपी पयोनिधिः । कालोदाख्यो योजनानामष्टी लक्षाणि विस्तृतः ॥६४४॥ धातक्यां सेष्वाकाराणां, मेर्वादीनाममापि यः । सङ्ख्याविषयनियमः, पुष्कराधैं स एव हि ॥६४५॥ धातकीखण्डक्षेत्रादिविभागाद् द्विगुणः पुनः । क्षेत्रादिकविभागोत्र, पुष्करार्धे प्रकीर्तितः ॥६४६॥ चत्वारो मेरवः क्षुद्रा, धातकी-पुष्करार्धयोः। योजनानां पञ्चदशसहरुया मेरुतोष्णवः ॥ ६४७॥ १ सुस्थिताभिधानस्य देवस्याश्रयः। २ लघवः । मेरवश्र त्रिषष्टि. ४०१ Jain Education Intel For Private & Personal use only I www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy